भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.78

14.78.1

ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः ।
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥

14.78.2

ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः ।
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत ॥

14.78.3

तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान् ।
ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा ॥

14.78.4

युध्यध्वं परया शक्त्या यतध्वं विजये मम ।
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥

14.78.5

एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम् ।
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः ॥

14.78.6

एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा ।
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥

14.78.7

न हन्तव्या रणे तात क्षत्रिया विजिगीषवः । जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ।
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः ॥

14.78.8

इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति ।
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम् ॥

14.78.9

न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् ।
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः ॥

14.78.10

प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ।
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ॥

14.78.11

यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ।
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ॥

14.78.12

ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः ।
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः ॥

14.78.13

अत्वरावानसम्भ्रान्तः सन्क्रुद्धैर्विजिगीषुभिः ।
शतं शतसहस्राणि शराणां नतपर्वणाम् ॥

14.78.14

मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि । शरानापततः क्रूरानाशीविषविषोपमान् ।
चिच्छेद निशितैर्बाणैरन्तरा स धनञ्जयः ॥

14.78.15

छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान् ।
एकैकमेषां समरे बिभेद निशितैः शरैः ॥

14.78.16

ततः प्रास्रांश्च शक्तीस्च पुनरेव धनञ्जये ।
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥

14.78.17

तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः ।
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः । तथैवापततां तेषां योधानां जयगृद्धिनाम् ।

14.78.18

तथैवापततां तेषां योधानां यजगृद्धिनाम् ।
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः ॥

14.78.19

तेषां प्रद्रवतां चापि पुनरेवाभिधावताम् ।
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥

14.78.20

ते वध्यमानास्तु तदा पार्थेनामिततेजसा ।
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥

14.78.21

ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः ।
कृता विसञ्ज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः ॥

14.78.22

तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा ।
दुःशला बालमादाय नप्तारं प्रययौ तदा ॥

14.78.23

सुरथस्य सुतं वीरं रथेनाथागमत्तदा ।
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ॥

14.78.24

सा धनञ्जयमासाद्य रुरोदार्तस्वरं तदा ।
धनञ्जयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥

14.78.25

समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा ।
प्राह किं करवाणीति सा च तं प्रत्युवाच ह ॥

14.78.26

एष ते भरतश्रेष्ठ स्वस्त्रीयस्यात्मजः शिशुः ।
अभिवादयते पार्थ तं पश्य पुरुषर्षभ ॥

14.78.27

इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा ।
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥

14.78.28

पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता ।
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय ॥

14.78.29

स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ । त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ।
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ॥

14.78.30

प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ ।
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥

14.78.31

तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो ।
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी ॥

14.78.32

इत्युक्त्वाऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा ।
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥

14.78.33

स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च । कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह ।
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥

14.78.34

अभिमन्योर्यथा जातः परिक्षित्परवीरहा ।
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज ॥

14.78.35

तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम् ।
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥

14.78.36

आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः ।
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥

14.78.37

एष प्रसाद्य शिरसा प्रशमार्थमरिन्दम ।
याचते त्वां महाबाहो शमं गच्छ धनञ्जय ॥

14.78.38

बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः ।
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥

14.78.39

तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम् ।
आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि ॥

14.78.40

एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः । संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ।
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत् ॥

14.78.41

धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् । यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥

14.78.42

इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः ।
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥

14.78.43

दुःशला चापि तान्योधान्निवार्य महतो रणात् ।
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना ॥

14.78.44

एवं निर्जित्य तान्वीरान्सैन्धवान्स धनञ्जयः ।
अन्वधावत धावन्तं हयं कामविचारिणम् ॥

14.78.45

ततो मृगमिवाकाशे यथा देवः पिनाकधृक् ।
ससार तं तथा वीरो विधिवद्यज्ञियं हयम् ॥

14.78.46

स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम् ।
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥

14.78.47

क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ ।
मणलूरपतेर्देशमुपायात्सहपाण्डवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc