भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.76

14.76.1

एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ ।
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥

14.76.2

ततश्चतुर्थे दिवसे यज्ञदत्तो महाबलः ।
जहास सस्वनं हासं वाक्यं चेदमताब्रवीत् ॥

14.76.3

अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे ।
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥

14.76.4

त्वया वृद्धो मम पिता भगदत्तः पितुः सखा ।
हतो वृद्धोऽपि बाधित्वा शिशुं मामद्य योधय ॥

14.76.5

इत्येवमुक्त्वा सन्क्रुद्धो यज्ञदत्तो नराधिपः ।
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥

14.76.6

सम्प्रेष्यमाणो नागेन्द्रो यज्ञदत्तेन धीमता ।
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥

14.76.7

अग्रहस्तसुमुक्तेन शीकरेण स नागराट् ।
समौक्षति गुडाकेशं शैलं नील इवाम्बुदः ॥

14.76.8

स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः ।
मुखाडम्बरसंह्रादैरभ्यद्रवत फल्गुनम् ॥

14.76.9

स नृत्यन्निव नागेन्द्रो यज्ञदत्तप्रचोदितः ।
आससाद द्रुतं राजन्कौरवाणां महारथम् ॥

14.76.10

तमायान्तमथालक्ष्य यज्ञदत्तस्य वारणम् ।
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥

14.76.11

चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः ।
कार्यविघ्नमनुस्मृत्यि पूर्ववैरं च भारत ॥

14.76.12

ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः ।
निवारयामास तदा वेलेव मकरालयम् ॥

14.76.13

स नागप्रवरः श्रीमानर्जुनेन निवारितः ।
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा ॥

14.76.14

निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः ।
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥

14.76.15

अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः ।
वारयामास तान्बाणांस्तदद्भुतमिवाभवत् ॥

14.76.16

ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः ।
प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम् ॥

14.76.17

तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः ।
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ॥

14.76.18

स तेन वारणो राजन्मर्मस्वभिहतो भृशम् ।
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥

14.76.19

स पतञ्शुशुभे नागो धनञ्जयशराहतः ।
विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥

14.76.20

तस्मिन्निपतिते नागे यज्ञदत्तस्य पाण्डवः ।
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥

14.76.21

अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः ।
राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ॥

14.76.22

सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम् ।
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ॥

14.76.23

वक्तव्याश्चापि राजानः सर्वे सह सुहृज्जनैः ।
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥

14.76.24

इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप ।
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥

14.76.25

आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् ।
तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः ॥

14.76.26

एवमुक्तः स राजा तु भगदत्तात्मजस्तदा ।
तथेत्वेवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc