भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.66

14.66.1

एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।
उपायाद्वृष्णिभिः सार्दं पुरं वारणसाह्वयम् ॥

14.66.2

समयं वाजिमेधस्य विदित्वा पुरुषर्षभः ।
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति ॥

14.66.3

रौक्मिणेयेन सहितो युयुधानेन चैव ह ।
चारुदेष्णेन साम्बेनि गदेन कृतवर्मणा ॥

14.66.4

सारणेन च वीरेण निशठेनोन्मुखेन च ।
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥

14.66.5

द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः ।
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥

14.66.6

तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः ।
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥

14.66.7

तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः ।
विदुरेणि महातेजास्तथैव च युयुत्सुना ॥

14.66.8

वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय ।
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥

14.66.9

स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः ।
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥

14.66.10

हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः ।
आविवश दिशःसर्वाः पुनरेवाभ्युपागमत् ॥

14.66.11

ततः सोतित्वरः कृष्णो विवेशान्तःपुरं तदा ।
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥

14.66.12

ततस्त्वरितमायान्तीं ददर्शं स्वां पितृष्वसाम् ।
क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः ॥

14.66.13

पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् ।
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप ॥

14.66.14

ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा ।
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥

14.66.15

वासुदेव महाबाहो सुप्रजा देवकी त्वया ।
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥

14.66.16

यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो ।
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥

14.66.17

त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन ।
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ॥

14.66.18

सोयं जातो मृतस्तात पश्यैनं पुरुषर्षभ ।
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥

14.66.19

धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा ।
सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि ॥

14.66.20

अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च ।
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥

14.66.21

अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च ।
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥

14.66.22

उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन ।
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः ॥

14.66.23

अब्रवीत्किल दाशार्ह वैराटीमार्जुनिस्तदा ।
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥

14.66.24

गत्वा वृष्णयन्धककुलं धनुर्वेदं ग्रहीष्यति ।
अस्त्राणि च विचित्राणि नितीशास्त्रं च केवलं ॥

14.66.25

इत्येतत्प्रणयात्तात सौभद्रः परवीरहा ।
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥

14.66.26

तास्त्वां वयं प्रणम्येह याचामो मधुसूदन ।
कुलस्यास्य हितार्तं च कुरु कल्याणमुत्तमम् ॥

14.66.27

एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना ।
उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥

14.66.28

अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः ।
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥

14.66.29

एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः ।
भूमौ निपतितां चैनां सान्त्वयामास भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc