भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.65

14.65.1

क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः ।
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे ॥
वैशम्पायन उवाच ।

14.65.2

श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः ।
गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥

14.65.3

आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च ।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा ॥

14.65.4

स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप ।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम्म् ॥

14.65.5

सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि । सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः ।
किन्कराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥

14.65.6

यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह ।
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये ॥

14.65.7

कृसरेण च मांसेन निवापैस्तिलसंयुतैः ।
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत् ॥

14.65.8

ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः ।
नक्तञ्चराणां भूतानां व्यादिदेश बलि तदा ॥

14.65.9

धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम् ।
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः ॥

14.65.10

कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः ।
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥

14.65.11

पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च ।
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥

14.65.12

शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः । अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान्

14.65.13

तेषां पुण्याहघोषेण तेजसा समवस्थितः ।
प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम् ॥

14.65.14

ततः पात्री सकरका बहुरूपा मनोरमाः ।
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥

14.65.15

बहूनि च विचित्राणि भाजनानि सहस्रशः ।
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥

14.65.16

तेषां रक्षणमप्यासीन्महान्करपुटस्तथा ।
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप ॥

14.65.17

वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशाम्पते ।
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥

14.65.18

वारणाश्च महाराज सहस्रशतसम्मिताः । शकटानि रथाश्चैव तावदेव करेणवः ।
स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते ॥

14.65.19

एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः ।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥

14.65.20

एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः ।
महादेवं प्रति ययौ पुरं नागाहयं प्रति ॥

14.65.21

द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् ।
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः ॥

14.65.22

सा पुराऽभिमुखा राजन्नुवाह महती चमूः ।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc