भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.67

14.67.1

उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा ।
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥

14.67.2

पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः ।
परिक्षीणेषु कुरुषु परिक्षीणां गतायुषम् ॥

14.67.3

इषीका द्रोणपुत्रेणि भीमसेनार्थमुद्यता ।
सोत्तरायां निपतिता विजये मयि चैव ह ॥

14.67.4

सेयं ज्वलन्ती हृदये मयि तिष्टति केशव ।
यन्न पश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो ॥

14.67.5

किन्नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः ।
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥

14.67.6

श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च ।
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥

14.67.7

अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः ।
ते श्रुत्वा किन्नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥

14.67.8

भविता नः परं दुःखं किन्नु मन्ये जनार्दन ।
अभिमन्योः सुतं कृष्ण मृतं जातमरिन्दम ॥

14.67.9

साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता ।
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥

14.67.10

यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव ।
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥

14.67.11

अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम ।
अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ॥

14.67.12

इत्येद्वचनं श्रुत्वा जानानाऽहं बलं तव ।
प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः ॥

14.67.13

यद्येतत्त्वं प्रतिश्रुत्य न करोषि वच शुभम् ।
सकलं वृष्णिशार्दूल मृतां मामवधारय ॥

14.67.14

अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् ।
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥

14.67.15

सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् ।
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्म्बुदः ॥

14.67.16

त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः ।
स तां वाचमृतां कर्तुमर्हसि त्वमरिन्दम ॥

14.67.17

इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् ।
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥

14.67.18

प्रभावज्ञाऽस्मि ते कृष्ण तस्मात्त्वां याचयाम्यहम् ।
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥

14.67.19

स्वसेति वा महाबाहो हतपुत्रेति वा पुनः ।
प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc