भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.64

14.64.1

ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः ।
रथघोषेण महता पूरयन्तो वसुन्धराम् ॥

14.64.2

संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः ।
स्वेन सैन्येन संवीता यथाऽदित्याः स्वरश्मिभिः ॥

14.64.3

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
बभौ युधिष्टिरस्तत्र पौर्णमास्यामिवोडुराट् ॥

14.64.4

जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः ।
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥

14.64.5

तथैव सैनिका राजन्राजानमनुयान्ति ये ।
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥

14.64.6

सरांसि सरितश्चैव वनान्युपवनानि च ।
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत ॥

14.64.7

स्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् । चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः ।
शिवे देशे समे चैव तदा भरतसत्तम ॥

14.64.8

अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् ।
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥

14.64.9

आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः ।
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन् ॥

14.64.10

कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि ।
षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः ॥

14.64.11

मत्तानां वारणेन्द्राणां निवेशं च यथाविधि ।
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥

14.64.12

अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे ।
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा ॥

14.64.13

न नः कालात्ययो वै स्यादिहैव परिलम्बताम् ।
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥

14.64.14

श्रुत्वैतद्व********* ब्राह्मणाः सपुरोधसः ।
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥

14.64.15

अद्यैव नक्षत्रिमहश्च पुण्यं यतामहे श्रेष्ठतमक्रियासु ।
तपोभिरद्येह वसाम राज- न्नुपोष्यतां चापि भवद्भिरद्य ॥

14.64.16

श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः ।

14.64.17

ऊषुः प्रतीताः कुशसंस्तरेषु यथाऽध्वरे प्रज्वलिता हुताशाः ॥

14.64.18

ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः ।
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc