भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.95

13.95.1

यौ च स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना च ।
ताभ्यां दानं कतरस्मै विशिष्ट- मयाचमानाय च याचते च ॥
भीष्म उवाच ।

13.95.2

श्रेयो वै याचतः पार्थ दानमाहुरयाचते ।
अर्हत्तमो वै धृतिमान्कृपणादकृतात्मनः ॥

13.95.3

क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः ।
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥

13.95.4

याच्यमाहुरनीशस्य अतिहारं च भारत ।
उद्वेजयन्ति याचन्ति यदा भूतानि दस्युवत् ॥

13.95.5

म्रियते याचमानो वै तमनु म्रियतेऽददत् ।
ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ॥

13.95.6

आनृशंस्यं परो धर्मो याचते यत्प्रदीयते ।
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रयेत् ॥

13.95.7

यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः ।
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥

13.95.8

तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि ।
अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः ॥

13.95.9

पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः । तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तपः

13.95.10

ददद्बहुविधान्देयानुपच्छन्दयते च तान् ॥

13.95.11

यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम् ।
विद्यावेदव्रतवति तद्दानफलमुच्यते ॥

13.95.12

विद्यावेदव्रतस्नाता न व्यापाश्रयजीविनः ।
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥

13.95.13

कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः ।
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान् ॥

13.95.14

अपि ते प्रतिगृह्णीयुः श्रद्धोपेतं युधिष्ठिर ।
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥

13.95.15

अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् ।
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥

13.95.16

अन्नानि प्रातःसवने नियता ब्रह्मचारिणः ।
ब्राह्मणास्तात भुञ्जानास्त्रेताग्निं प्रीणयन्त्युत ॥

13.95.17

माध्यन्दिनं ते सवनं ददतस्तात वर्तताम् ।
गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥

13.95.18

तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर ।
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ॥

13.95.19

अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः ।
दमस्त्यागो धृतिः सत्यं भवत्यवभृथाय ते ॥

13.95.20

एथ ते चिततो यज्ञः श्रद्धापूतः सदक्षिणः ।
विशिष्टः सर्वयज्ञानां नित्यं तात प्रवर्तताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc