भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.94

13.94.1

यानीमानि बहिर्वेद्यां दानानि परिचक्षते ।
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥

13.94.2

कौतूहलं हि परमं तत्र मे विद्यते प्रभो ।
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥
भीष्म उवाच ।

13.94.3

अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः ।
यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥

13.94.4

भरणे पुत्रदाराणां तद्दानं श्रेष्ठमुच्यते ।
दत्तं दातारमन्वेति तद्दानं भरतर्षभ ॥

13.94.5

हिरण्यदानं गोदानं पृथिवीदानमेव च ।
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतात् ॥

13.94.6

एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा ।
दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥

13.94.7

यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥

13.94.8

प्रियाणि लभते नित्यं प्रियदः प्रियकृत्तथा ।
प्रियो भवति भूतानामिह चैव परत्र च ॥

13.94.9

याचमानमभीमानादनासक्तमकिञ्चनम् ।
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥

13.94.10

अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥

13.94.11

कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते ।
अपहन्यात्क्षुधां यस्तु न तेन पुरुषः समः ॥

13.94.12

क्रियानियमितान्साधुन्पुत्रदारैश्च कर्शितान् ।
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत् ॥

13.94.13

आशिषं ये न देवेषु न च मर्त्येषु कुर्वते ।
अर्हन्तो नित्यसत्वस्था यथालब्धोपजीविनः ॥

13.94.14

आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत ।
तान्युक्तैरुपजिज्ञास्य भोगैर्निर्वप रक्ष च ॥

13.94.15

कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः ।
निमन्त्रयेथाः कौरव्य सर्वभूतसुखावहैः ॥

13.94.16

यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर ।
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥

13.94.17

विद्यास्नाता व्रतस्नाता धर्ममाश्रित्य जीविनः ।
गूढस्वाध्यायतपसो ब्राह्म्णाः संशितव्रताः ॥

13.94.18

तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च ।
यत्करिष्यसि कल्याणं तत्ते लोके युधाम्पते ॥

13.94.19

यथाऽग्निहोत्रं सुहुतं सायम्प्रातर्द्विजातिना ।
तथा भवति दत्तं वै विद्वद्भ्यो यत्कृतात्मना ॥

13.94.20

एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः ।
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥

13.94.21

निवापो दानसदृशः सदृशेषु युधिष्ठिर ।
निवेदयन्पूजयन्वै तेष्वानृण्यं निगच्छति ॥

13.94.22

य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि ।
त एव नः पूज्यतमा ये चापि प्रियवादिनः ॥

13.94.23

ये नो न बहुमन्यन्ते न प्रवर्तन्ति याचने ।
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम् ॥

13.94.24

ऋत्विक्पुरोहिताचार्या मृदुधर्मपरा हि ये ।
क्षात्रेणापि हि संसृष्टं तेजः शाम्यति तेष्वपि ॥

13.94.25

ईश्वरो बलवानस्मि राजाऽस्मीति युधिष्ठिर ।
ब्राह्मणान्मास्म पर्यासीर्वासोभिरशनेन च ॥

13.94.26

यच्छोभार्थं बलार्तं वा वित्तमस्ति तवानघ ।
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥

13.94.27

नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम् ।
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥

13.94.28

को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम् ।
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥

13.94.29

यथाऽपत्याश्रयो धर्मः स्त्रीणां लोके सनातनः ।
सदैव सा गतिर्नान्या तथाऽस्माकं द्विजातयः ॥

13.94.30

यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः ।
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥

13.94.31

अवेदानामकीर्तीनामलोकानामयज्विनाम् ।
कोनु स्याज्जीवितेनार्थस्तद्धिनो ब्राह्मणाश्रयम् ॥

13.94.32

अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम् । राजन्यो ब्राह्मणान्राजन्पुरा परिचचार ह ।
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥

13.94.33

दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् ।
संस्पर्शपरिचर्यसल्तु वैश्येन क्षत्रियेण च ॥

13.94.34

मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् ।
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥

13.94.35

अपरेषां परेषां च परेभ्यश्चापि ये परे । क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥

13.94.36

न मे पिता प्रियतरो न त्वं तात तथा प्रियः ।
न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥

13.94.37

त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन ।
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥

13.94.38

ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन ।
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः ॥

13.94.39

पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् ।
तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥

13.94.40

सोहमेतादृशान्लोकान्दृष्ट्वा भरतसत्तम ।
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc