भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.96

13.96.1

दानं यज्ञः क्रिया चेह किंस्वित्प्रेत्य महाफलम् ।
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥

13.96.2

एतदिच्छामि विज्ञातुं याथातथ्येनि भारत ।
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥

13.96.3

अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः ।
किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.96.4

रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते ।
नास्य वैतानिकफलं विना दानं सुपावनम् ॥

13.96.5

न तु पापकृतां राज्ञां याजका द्विजसत्तमाः ॥
धने सत्यप्रदातॄणां प्रतिगृह्णन्ति साधवः ॥

13.96.6

प्रतिगृह्णन्ति न तु चेद्यद्रोषादाप्तदक्षिणैः ।
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाऽप्तदक्षिणैः ॥

13.96.7

अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः ।
श्रद्धामास्थाय परमां पावनं ह्येतुदुत्तमम् ॥

13.96.8

ब्राह्मणांस्तर्पयन्द्रव्यैः स वै यज्ञोऽनुपद्रवः ।
मैत्रान्साधून्वेदविदः शीलवृत्ततपोर्जितान् ॥

13.96.9

यत्ते ते न करिष्यन्ति कृतं ते न भविष्यति ।
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥

13.96.10

इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा ।
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥

13.96.11

विद्वद्भ्यः सम्प्रदानेन तत्राप्यंशोऽस्य पूजया । यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत् ।
प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्यभवेत् ॥

13.96.12

प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः ।
प्रजावांस्तेन भवति यथा जनयिता तथा ॥

13.96.13

यावतः साधुधर्मान्वै सन्तः संवर्धयन्त्युत ।
सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः ॥

13.96.14

समृद्धः सम्प्रयच्छ त्वं ब्राह्म्णेभ्यो युधिष्ठिर ।
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥

13.96.15

आज्यानि यजमानेभ्यस्तथाऽन्नानि च भारत ।
अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥

13.96.16

एते देयाः पुष्टिमद्भिर्लघूपायाश्च भारत ।
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥

13.96.17

उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपालय ।
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥

13.96.18

एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि ।
सञ्चयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥

13.96.19

तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च ।
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥

13.96.20

पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय ।
[योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥

13.96.21

तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम् ।
अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान् ॥

13.96.22

क्षिया ह्यभीक्ष्णं संवासो दर्पयेत्सम्प्रमोहयेत् । ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्धुवम् ।
धर्मप्रणाशे भूतानामभावः स्यान्न संशयः ॥

13.96.23

यो रक्षिभ्यः सम्प्रदाय राजा राष्ट्रं विलुम्पति ।
यज्ञे राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन् ॥

13.96.24

यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम् ।
यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः ॥

13.96.25

अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः ।
तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः ॥

13.96.26

यदा परिनिषिच्येत निहितो वै यथाविधि ।
तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः ॥

13.96.27

वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च ।
न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् ॥

13.96.28

हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृप श्रियम् ।
दद्याच्च महतो भोगान्क्षुद्भयं प्रणुदेत्सताम् ॥

13.96.29

येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः ।
नाश्नन्ति विधिवत्तानि किन्नु पापतरं ततः ॥

13.96.30

यदि ते तादृशो राष्ट्रे विद्वान्त्सीदेत्क्षुधा द्विजः ।
भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम् ॥

13.96.31

धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति ।
द्विजोऽन्यो वा मनुष्योपि शिबिराह वचो यथा ॥

13.96.32

यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा ।
अवृद्धिमेति तद्राष्ट्रं विन्दते सह राजकम् ॥

13.96.33

क्रोशन्त्यो यस्य वै राष्ट्राद्ध्रियन्ते तरसा स्त्रियः ।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति] ॥

13.96.34

अरक्षितारं हर्तारं विलोप्तारमनायकम् ।
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणं ॥

13.96.35

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥

13.96.36

पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः ।
चतुर्थं तस्य पापस्य राजा विन्दति भारत ॥

13.96.37

अथाहुः सर्वमेवैति भूयोऽर्धमिति निश्चयः ।
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥

13.96.38

शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥

13.96.39

जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर ।
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥

13.96.40

कुबेरमिव रक्षांसि शतक्रतुमिवामराः ।
ज्ञातयस्त्वाऽनुजीवन्तु सुहृदश्च परन्तप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc