भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.68

13.68.1

किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह । कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्रुते
भीष्म उवाच ।

13.68.2

एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः ॥

13.68.3

कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥

13.68.4

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।
सान्त्वेन भोगदानेन नमस्कारैः सदाऽर्चयेत् ॥

13.68.5

एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत् ।
यथाऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत् ॥

13.68.6

ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् ।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥

13.68.7

ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा ।
तेष्वेव यात्रा लोकानां भूतानामिव वासवे ॥

13.68.8

अभिचारैरुपायैश्च दहेयुरपि चेतसा । निःशेपं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ।

13.68.9

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः ।
कुपिताः समुदीक्षन्ते दावेषअवग्निशिखा इव ॥

13.68.10

मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः । बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि ।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥

13.68.11

प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे ।
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः ॥

13.68.12

कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः ।
चोराश्चान्येऽनृताश्चान्ये तथाऽन्ये नटनर्तकाः ॥

13.68.13

सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च ।
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥

13.68.14

नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम् । धर्मज्ञानां सतां तेषां नित्यमवोनुकीर्तयेत्

13.68.15

पितॄणां देवतानं च मनुष्योरगरक्षसाम् ।
पुराऽप्येते महाभागा ब्राह्मणा वै जनाधिप ॥

13.68.16

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः ।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥

13.68.17

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥

13.68.18

परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः ।
सत्यं ब्रवीमि ते राजन्विनश्येयुर्न संशयः ॥

13.68.19

निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः ।
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥

13.68.20

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः ॥

13.68.21

शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः ।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥

13.68.22

द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः ।
कोलिसर्पा महिपकास्तास्ताः क्षत्रियजातयः ॥

13.68.23

वृपलत्वं परिगता ब्राह्मणानामदर्शनात् ।
श्रेयान्पराजयस्तेभ्यो न जयो जयतांवर ॥

13.68.24

यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् ।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥

13.68.25

परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन ।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥

13.68.26

न स जातो जनिष्यो वा पृथिव्यामिह कश्चन ।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥

13.68.27

दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc