भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.67

13.67.1

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
त्वत्तोऽहं श्रोतुमिच्छामि धर्मं भरतसत्तम ॥

13.67.2

शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् ।
किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः ॥
भीष्म उवाच ।

13.67.3

इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः ।
इतिहासं पुरावृत्तं शरणार्थं महाफलम् ॥

13.67.4

प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः ।
वृषदर्भं महाभागं नरेन्द्रं शरणं गतः ॥

13.67.5

स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम् ।
आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज ॥

13.67.6

भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया ।
येन त्वमिह सम्प्राप्तो विसञ्ज्ञो भ्रान्तचेतनः ॥

13.67.7

नवनीलोत्पलापीड चारुवर्ण सुदर्शन ।
दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव ॥

13.67.8

मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत् ।
मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् ॥

13.67.9

काशिराज्यं तदद्यैव त्वदर्तं जीवितं तथा ।
त्यजेयं भव विस्रब्धः कपोत भयं तव ॥
श्येन उवाच ।

13.67.10

ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि ।
अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम् ॥

13.67.11

मांसं च रुधैरं चास्य मज्जा मेदश्च मे हितम् ।
परितोषकरो ह्येष मम माऽस्याग्रतो भव ॥

13.67.12

तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम् ।
मुञ्चैनं नहि शक्ष्यामि राजन्मन्दयितुं क्षुधाम् ॥

13.67.13

मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः ।
किञ्चिदुच्छ्वासनिःश्वासं न राजन्गोप्तुमर्हसि ॥

13.67.14

यदि स्वविषये राजन्प्रभुस्त्वं रक्षणे नृणाम् ।
खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम ॥

13.67.15

यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः ।
विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम ॥

13.67.16

प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते ।
यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि ॥
भीष्म उवाच ।

13.67.17

श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः ।
सम्भाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत ॥
राजोवाच ।

13.67.18

गोवृषो वा वराहो वा मृगो वा महिषोपि वा ।
त्वदथर्मद्य क्रियतां क्षुधाप्रशमनाय ते ॥

13.67.19

शरणागतं न त्यजेयमिति मे व्रतमाहितम् ।
न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज ॥
श्येन उवाच ।

13.67.20

न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान् भक्षयामि महाराज किमन्नाद्येन तेन मे ॥

13.67.21

यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः ।
श्येनाः कपोतान्खादन्ति स्तितिरेषा सनातनी ॥

13.67.22

उशीनर कपोते तु यदि स्नेहस्तवानघ ।
ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् ॥
राजोवाच ।

13.67.23

महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम् ।
बाढमेव करिष्यामीत्युक्त्वाऽसौ राजसत्तमः ॥

13.67.24

उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् ।
अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः ॥

13.67.25

हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः ।
तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च ॥

13.67.26

बभूव सुमहान्नादो मेघगम्भीरनिःस्वनः ।
निरुद्धं गगनं सर्वं व्यभ्रं मेघैः समन्ततः ॥

13.67.27

मही प्रचलिता चासीत्तस्य सत्येन कर्मणा ॥

13.67.28

स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत् । तानि मांसानि सञ्छिद्य तुलां पूरयतेऽशनैः ।
तथापि न समस्तेन कपोतेन बभूव ह ॥

13.67.29

अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः ।
तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन् ॥

13.67.30

ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः ।
र्भर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः ॥

13.67.31

अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः ।
दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनःपुनः ॥

13.67.32

देवगन्धर्वसन्घातैरप्सरोभिश्च सर्वतः ।
नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः ॥

13.67.33

हेमप्रासादसम्बाधं मणिकाञ्चनतोरणम् ।
सवैडूर्यमणिस्तम्भं विमानं समधिष्ठितः ॥

13.67.34

स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम् ।
शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर ॥

13.67.35

भक्तानामनुरक्तानामाश्रितानां च रक्षिता ।
दयावान्सर्वभूतेषु परत्र सुखमेधते ॥

13.67.36

साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति ।
किं न प्राप्तं भवेत्तेनि स्वव्याजेनेह कर्मणा ॥

13.67.37

स राजर्षिर्विशुद्धात्मा धीरः सत्यपराक्रमः ।
काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा ॥

13.67.38

योऽप्यन्यः कारेयदेवं शरणागतरक्षणम् ।
सोपि गच्छेत तामेव गतिं भरतसत्तम ॥

13.67.39

इदं वृत्तं हि राजर्षे वृषदर्भस्य कीर्तयन् ।
पूतात्मा वै भवेल्लोके शृणुयाद्यश्च नित्यशः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc