भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.69

13.69.1

ब्राह्मणानेव सततं भृशं सम्परिपूजयेत् ।
एते हि सोमराजान ईश्वरः सुखदुःखयोः ॥

13.69.2

एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः । सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः ।
ततो राष्ट्राय शान्तिर्हि भूतानामिव वासवात् ॥

13.69.3

ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः ।
महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥

13.69.4

ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् ।
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै ॥

13.69.5

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः ।
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥

13.69.6

आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः ।
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते ॥

13.69.7

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ।
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥

13.69.8

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ।
तथैव देवता राजन्नात्र कार्या विचारणा ॥

13.69.9

तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ।
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम् ॥

13.69.10

येनयेनैव प्रीयन्ते पितरो देवतास्तथा ॥
तेनतेनैव प्रीयन्ते पितरो देवतास्तथा ॥

13.69.11

ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ।
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥

13.69.12

वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ।
आगतानागते चोमे ब्राह्मणो द्विपदांवरः ॥

13.69.13

ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः । ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् ।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥

13.69.14

यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः ।
कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥

13.69.15

क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥

13.69.16

भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन् ।
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥

13.69.17

चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः ।
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥

13.69.18

यत्किञ्चित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा ।
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥

13.69.19

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥
वासुदेव उवाच ।

13.69.20

मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे ।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥
पृथिव्युवाच ।

13.69.21

ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् । ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ।
भूतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते ॥

13.69.22

महारथश्च राजन्य एष्टव्यः शत्रुतापनः ।
इति मां नारदः प्राह सततं सर्वभूतये ॥

13.69.23

ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितं शुचिम् ।
अपरेषां परेषां च परेभ्यश्चैव ये परे ॥

13.69.24

ब्राह्मणा यं प्रशंसन्ति स मनुष्यः प्रवर्धते ।
अथ यो ब्राह्मणान्क्रुष्टः पराभवति सोचिरात् ॥

13.69.25

यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति ।
तथा दुश्चरितं विप्रे पराभावाय कल्पते ॥

13.69.26

पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् ।
तथा भगसहस्रेण महेन्द्रः परिचिह्नितः ॥

13.69.27

तेषामेव प्रभावेन सहस्रनयनो ह्यसौ ।
शतक्रतुः समभवत्पश्य माधव यादृशम् ॥

13.69.28

इच्छन्कीर्तिं च भूतिं च लोकांश्च मधुसूदन ।
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥
भीष्म उवाच ।

13.69.29

इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः ।
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत् ॥

13.69.30

एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् ।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc