भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.59

13.59.1

श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम ।
एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम् ॥
नारद उवाच ।

13.59.2

बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः ।
ऋतौ विमुञ्चमानस्य सान्निध्ये भ्रूणहा स्मृतः ॥

13.59.3

वृद्धां वन्ध्यां सुव्रता च मृतापत्यामपुष्पिणीम् ।
कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात् ॥

13.59.4

व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु ।
ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति ॥
मार्कण्डेय उवाच ।

13.59.5

वैश्यनारीषु वै जाताः परप्रेष्यासु वा सुताः ।
कस्य ते बन्धुदायादा भवन्ति हि महामुने ॥
नारद उवाच ।

13.59.6

पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः ।
क्रयाच्च कृत्रिमाः पुत्रा प्रदानाच्चैव दत्रिमाः ॥
मार्कण्डेय उवाच ।

13.59.7

पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम् ।
अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् ॥
नारद उवाच ।

13.59.8

तीर्थभूतासु नारीषु ज्ञायते योऽभिगच्छति ।
ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते ॥
मार्कण्डेय उवाच ।

13.59.9

नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम् ।
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् ॥
नारद उवाच ।

13.59.10

अपापां त्यजमानस्य साध्वीं मत्वा यमादितः ।
आत्मवंशस्वधर्मो वा त्यजतो निष्कृतिर्न तु ॥

13.59.11

यो नरस्त्यजते भार्या पुष्पिणीमप्रसूतिकाम् ।
स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः ॥

13.59.12

भार्यामपत्यसञ्जातां प्रसूतां पुत्रपौत्रिणीम् ।
पुत्रदारपरित्यागी न स प्राप्नोति निष्कृतिम् ॥

13.59.13

एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः ।
नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः ॥
मार्कण्डेय उवाच ।

13.59.14

कीदृशीं सन्त्यजन्भार्यां नरो दोषैर्न लिप्यते ।
एतदिच्छामि तत्वेन विज्ञातुमृषिसत्तम ॥
नारद उवाच ।

13.59.15

मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम् ।
भार्यापतीनां मुक्तानामधर्मो न विधीयते ॥

13.59.16

अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् ।
परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् ॥

13.59.17

पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा ॥
मार्कण्डेय उवाच ।

13.59.18

भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा ।
कथं धर्मोऽप्यधर्मो वा भवतीह महामते ॥
नारद उवाच ।

13.59.19

अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् ।
अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा ॥

13.59.20

अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत् ।
लोलेन्द्रियेति सा रक्ष्या न सन्त्याज्या कथञ्चन ॥

13.59.21

नद्यश्च नार्यश्च समस्वभावा नैताः प्रमुञ्चन्ति नरावगाढाः ।
स्रोतांसि नद्यो वहते निपातं नारी रजोभिः पुनरेति शौचम् ॥

13.59.22

एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम् ।
मासिमासि भवेद्रागस्ततः शुद्धा भवन्त्युत ॥
मार्कण्डेय उवाच ।

13.59.23

कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै ।
तानि वै शंस भगवन्याथातथ्येन पृच्छतः ॥

13.59.24

सर्वतीर्थेषु सर्वज्ञ किं तीर्थं परमं नृणाम् ।
यत्रोपस्पृश्य पूतो यो नरो भवति नित्यशः ॥
नारद उवाच ।

13.59.25

देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथं वैष्णवम् ।
नृणां तीर्थानि पञ्चाहुः पाणौ सन्निहितानि वै ॥

13.59.26

आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते । यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् ।
पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च ॥
मार्कण्डेय उवाच ।

13.59.27

नराणां कामवृत्तानां या नार्यो निरवग्रहाः ।
यासामभिग्रहो नास्ति ता मे कथय नारद ॥
नारद उवाच ।

13.59.28

पाशुर्वैश्या नटी गोपी तान्तुकी तुन्नवायिकी ।
नारी किराती शबरी नर्तकी चानवग्रहा ॥
मार्कण्डेय उवाच ।

13.59.29

एतासु जाता नारीषु सर्ववर्णेषु ये सुताः ।
केषु के बन्धुदायादा भवन्ति ऋषिसत्तम ॥
नारद उवाच ।

13.59.30

य एताः परिगृह्णन्ति तेषामेव हि ते सुताः ।
सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् ॥
मार्कण्डेय उवाच ।

13.59.31

सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः । मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः ।
नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् ॥
नारद उवाच ।

13.59.32

नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः ।
व्रात्येष्वन्नप्रदानं तद्यथा शूद्रेषु वै तथा ॥
मार्कण्डेय उवाच ।

13.59.33

धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः ।
कथं न विघ्नो भवति एतदिच्छामि वेदितुम् ॥
नारद उवाच ।

13.59.34

अर्थाश्च नार्यश्च समानमेन- च्छ्रेयांसि पुंसामिह मोहयन्ति ।
रतिप्रमोदात्प्रमदा हरन्ति भोगैर्धनं चाप्युपहन्ति धर्मान् ॥

13.59.35

हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति ।
दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः ॥
मार्कण्डेय उवाच ।

13.59.36

श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् ।
हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः ॥
नारद उवाच ।

13.59.37

चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु ।
तस्माद्वर्णौः संविभज्या वृत्तिः सङ्करवर्जिता ॥

13.59.38

ये चान्ये श्रोत्रिया जाताः संस्कृताः पुत्रगृध्नुभिः ।
पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिमुपाश्रिताः ॥
मार्कण्डेय उवाच ।

13.59.39

असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिजाः कथम् ।
नारद उवाच ।

13.59.40

असंस्कारो वैदिकश्च स मान्यः श्रोत्रियात्मजः ।
शुद्धान्वयः श्रोत्रियस्तु सुविद्वद्भिः समोऽन्यथा ॥

13.59.41

अनधीयानपुत्राश्च वेदसंस्कारवर्जिताः ।
तस्मात्ते वेदविज्ञाऽपि विप्राः श्रुतिनिकारिणः ॥

13.59.42

ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः ।
तस्मात्तेष्वेव ते जाताः साधवः कुलधारिणः ॥
मार्कण्डेय उवाच ।

13.59.43

स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः ।
कस्य नार्यः सुताश्चैव भवन्ति ऋषिसत्तम ॥
नारद उवाच ।

13.59.44

स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत् ।
इहाभिनिन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् ॥

13.59.45

सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास्तु ते । तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः ।
सर्वे तस्यास्तु सम्बन्धा मुच्यन्ते प्रेष्यकर्मसु ॥

13.59.46

एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया ।
अथवा संशयः कश्चिद्भूयः सम्प्रष्टुमर्हसि ॥
मार्कण्डेय उवाच ।

13.59.47

अमिथ्यादर्शनालोके नारदः सर्वकोविदः ।
प्रत्यक्षदर्शी लोकानां स्वयम्भुरिव सत्तमः ॥
भीष्म उवाच ।

13.59.48

इति सम्भाष्य ऋषिभिर्मार्कण्डेयो महातपाः । नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः ।
आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः ॥

13.59.49

ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः ॥

13.59.50

सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मिचर्यया । नित्यनैमित्तिकात्स्नातो मनश्शुद्ध्या च शुद्ध्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc