भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.60

13.60.1

किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् ।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम् ॥
भीष्म उवाच ।

13.60.2

स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च ।
देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥
युधिष्ठिर उवाच ।

13.60.3

श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये ।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥
भीष्म उवाच ।

13.60.4

श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।
पूतो भवति सर्वत्र किमुत त्वं महाद्युते ॥
युधिष्ठिर उवाच ।

13.60.5

न ब्राह्मणं परिक्षेत दैवेषु सततं नरः ।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥
भीष्म उवाच ।

13.60.6

न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति ।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः ॥

13.60.7

ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः । मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान् ।
ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह ॥
युधिष्ठिर उवाच ।

13.60.8

अपर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत् ।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥
भीष्म उवाच ।

13.60.9

कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान् ।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः ॥

13.60.10

तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम् ।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥

13.60.11

पृथिव्युवाच ।

13.60.11

यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति ।
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति ॥
काश्यप उवाच ।

13.60.12

सर्वे च वेदाः सह षङ्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म ।
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य ॥
अग्निरुवाच ।

13.60.13

अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
ब्रह्मन्स तेन लभते ब्रह्मवध्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥
मार्कण्डेय उवाच ।

13.60.14

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात् ॥
भीष्म उवाच ।

13.60.15

इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥
युधिष्ठिर उवाच ।

13.60.16

यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः ।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥
भीष्म उवाच ।

13.60.17

आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः ।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥
युधिष्ठिर उवाच ।

13.60.18

अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.60.19

अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा ।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥

13.60.20

ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् ।
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो ॥

13.60.21

तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः ।
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः ॥

13.60.22

धनेन पुल्कसानां च तथैवान्तेवसायिनाम् ।
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम् ॥

13.60.23

वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे ।
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥
युधिष्ठिर उवाच ।

13.60.24

किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम् ।
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.60.25

ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् ।
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥
युधिष्ठिर उवाच ।

13.60.26

कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत् ।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.60.27

काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् ।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥

13.60.28

ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत् ।
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥

13.60.29

अधिकारे यदनृतं यच्च राजसु पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥

13.60.30

प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च ।
भ्रूणहत्यासमं चैतदुभयं ये निषेधते ॥

13.60.31

नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् ।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥
युधिष्ठिर उवाच ।

13.60.32

कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् ।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.60.33

अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥

13.60.34

अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥

13.60.35

अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः ।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥

13.60.36

साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः ।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥

13.60.37

ये त्वेवन्गुणजातीयास्तेभ्यो दत्तं महाफलम् ।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥

13.60.38

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः ।
तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च ॥

13.60.39

गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् ।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥

13.60.40

तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः ।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत् ॥

13.60.41

निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम् ।
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc