भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.58

13.58.1

श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम् ।
प्रमदानां तु चापल्ये दोषमिच्छामि वेदितुम् ॥
नारद उवाच ।

13.58.2

एकवर्णे विदोषं तु गमनं पूर्वकालिकम् ।
धाता च समनुज्ञातो विष्णुना तत्तथाऽकरोत् ॥

13.58.3

भगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः ।
ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः ॥

13.58.4

अथ विष्णुप्रसादेन भगो दत्तवरः किल ।
तेन चैव प्रसादेन सर्वांल्लोकानुपाश्नुते ॥

13.58.5

तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः ।
विना गर्भं सवर्णेषु न त्याज्या गमनात्स्त्रियः ॥

13.58.6

प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः ।
श्वभिर्वा दंशनं स्नानं सवनत्रितयं निशि ॥

13.58.7

भूमौ च भस्मशयनं दानं भोगविवर्जितम् । दोषगौरवतः कालो द्रव्यगौरवमेव च ।
मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते ॥

13.58.8

तद्योषितीं तु दीर्घायो नास्ति दोषो व्यतिक्रमे ।
भगतीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह ॥

13.58.9

रक्ष्याश्चैवान्यसंवादैरन्यगेहाद्विचक्षणैः ।
आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते ॥

13.58.10

नैता वाच्या न वै वध्या न क्लेश्याः शुभमिच्छता । विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः ।
मासिमासि ऋतुस्तासां दुष्कृतान्यपकर्षति ॥

13.58.11

स्त्रियस्तोषकरा नॄणां स्त्रियः पुष्टिप्रदाः सदा ।
पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc