भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.57

13.57.1

श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने ।
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो ॥
नारद उवाच ।

13.57.2

आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति ।
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम् ॥

13.57.3

परदारा मुक्तदोषास्ता नार्योऽश्रमसंस्थिताः ।
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः ॥

13.57.4

एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु ।
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः ॥
मार्कण्डेय उवाच ।

13.57.5

परस्य भार्या या पूर्वं मृते भर्तरि या पुनः ।
अन्यं भजति भर्तारं ससुता असुता कथम् ॥
नारद उवाच ।

13.57.6

असुता वा प्रसूता वा गृहस्थानां परस्त्रियः ।
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः ॥

13.57.7

न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः ।
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात् ॥
मार्कण्डेय उवाच ।

13.57.8

परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः ।
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम ॥
नारद उवाच ।

13.57.9

अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत् ।
स्वयंवृतोऽश्रमस्थायां तद्बीजं न विनश्यति ॥

13.57.10

परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत् ।
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम् ॥

13.57.11

नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम् ।
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि ॥
मार्कण्डेय उवाच ।

13.57.12

अथ ये परदारेषु पुत्रा जायन्ति नारद ।
कस्य ते बन्धुदायादा भवन्ति परमद्युते ॥
नारद उवाच ।

13.57.13

परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ ।
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः ॥

13.57.14

ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम् ॥

13.57.15

पितुहि नरकायैते गोलकस्तु विशेषतः ।
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः ॥
मार्कण्डेय उवाच ।

13.57.16

कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः ।
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान् ॥
नारद उवाच ।

13.57.17

क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ ।
न रक्षति च यो दारान्परदाराश्च गच्छति ॥

13.57.18

गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः ।
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः ॥
मार्कण्डेय उवाच ।

13.57.19

तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद ।
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं ॥
नारद उवाच ।

13.57.20

यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम् ।
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः ॥
मार्कण्डेय उवाच ।

13.57.21

अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् ।
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम ॥
नारद उवाच ।

13.57.22

न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम् ।
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः ॥
मार्कण्डेय उवाच ।

13.57.23

अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति ।
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं ॥
नारद उवाच ।

13.57.24

साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम् ।
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः ॥

13.57.25

एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः । हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc