भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.50

13.50.1

यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥

13.50.2

आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽसुरः ।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥

13.50.3

सन्देहः सुमहानेष विरुद्ध इति मे मतिः ।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्वनु ॥

13.50.4

स्वर्गो मृतानां भवति सहधर्मः पितामह ।
पूर्वमेकस्तु म्रिय********कस्तिष्ठते वद ॥

13.50.5

नानाधर्मफलोपेता नानाकर्मनिवासिताः ।
नानानिरयनिष्ठान्ता मानुपा बहवो यदा ॥

13.50.6

अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।
यदाऽनृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥

13.50.7

अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।
धर्मो यः पूर्विको दृष्ट उपचारः क्रियाविधिः ॥

13.50.8

गहरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।
निःसन्देहमिदं सर्वं पितामह यथाश्रुतिः ॥

13.50.9

यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥
भीष्म उवाच ।

13.50.10

अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अष्टावक्रस्य संवादं दिशया सह भारत ॥ इ

13.50.11

निर्विष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥

13.50.12

सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।
गुणप्रभावशीलेन चारित्रेण च शोभनाम् ॥

13.50.13

सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना ।
वनराजी यथा चित्रा वसन्ते कुसुमाञचिता ॥

13.50.14

ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु ॥

13.50.15

अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः ।
सुरूपः सम्मतो वीरः शीलवान्भोगभुक्छुचिः ॥

13.50.16

दारानुमतयज्ञश्च सुनक्षत्रामथोद्वेहेत् ।
सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते ॥

13.50.17

गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥
अष्टावक्र उवाच ।

13.50.18

किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
तथेदानीं मयो कार्यं यथा वक्ष्यति मां भवान् ॥
वदान्य उवाच ।

13.50.19

धनदं समतिक्रम्य हिमवन्तं च पर्वतम् ।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥

13.50.20

संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः ॥

13.50.21

पाणितालसुतालैश्च शम्पातालैः समैस्तथा ।
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥

13.50.22

इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम ।
नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः ॥

13.50.23

तत्र देव्या तपस्तप्तं सङ्करार्थं सुदुश्चरम् ।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥

13.50.24

पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा ॥
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥

13.50.25

देवं चोपासते सर्वे रूपिणः किल तत्र ह ।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥

13.50.26

ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम् ।
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम् ॥

13.50.27

तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ॥

13.50.28

तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम् ॥
अष्टावक्र उवाच ।

13.50.29

तथाऽस्तु साधयिष्यामि तत्र यास्याम्यसंशयम् ।
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥
भीष्म उवाच ।

13.50.30

ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम् ।
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥

13.50.31

स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् ।
अभ्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम् ॥

13.50.32

अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः ।
तत्र वासाय शयने कौशे सुखमुवास ह ॥

13.50.33

ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः ।
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः ॥

13.50.34

रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् ।
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥

13.50.35

सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया ।
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥

13.50.36

अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् ।
प्रत्युत्थिता भगवन्तं माणिभद्रपुरोगमाः ॥

13.50.37

स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् ।
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥

13.50.38

ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन् ।
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥

13.50.39

विदितो भगवानस्य कार्यमागमनस्य यत् ।
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥

13.50.40

ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥

13.50.41

सुखं प्राप्तो भवान्कच्चित्किंवा मत्तश्चिकीर्षति ।
ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज ॥

13.50.42

भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम ।
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥

13.50.43

प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् ।
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥

13.50.44

अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः ।
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः ॥

13.50.45

ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् ।
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥

13.50.46

आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा ।
संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥

13.50.47

यथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा ।
अलम्बुसा घृताची च चित्रा चित्राङ्गदारुचिः ॥

13.50.48

मनोहरा सुकेशी च सुमुखी हासिनी प्रभा ।
विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥

13.50.49

एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ।
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥

13.50.50

अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत् ।
दिव्यं संवत्सरं तत्रारमतैष महातपाः ॥

13.50.51

ततो वैश्रवणो राजा भगवन्तमुवाच ह ।
साग्रः संवत्सरो यातो विप्रेह तव पश्यतः ॥

13.50.52

हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः ।
छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥

13.50.53

अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् ।
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥

13.50.54

अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत ।
अर्चितोस्मि यथान्यायं गमिष्यामि धनेश्वर ॥

13.50.55

प्रीतोस्मि सदृशं चैव तव सर्वं धनाधिप । तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ।
नियोगादद्य यास्यामि वृद्दिमानृद्धिमान्भव ॥

13.50.56

अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः ।
कैलासे सङ्करावासमभिवीक्ष्य प्रणम्य च ॥

13.50.57

गौरीशं शङ्करं दान्तं शरणागतवत्सलम् । गङ्गाधरं गोपतिनं गणावृतमकल्पषम् ॥

13.50.58

कैलासं मन्दरं हैमं सर्वाननुचचार ह ।
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ॥

13.50.59

प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः ।
धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभकवत् ॥

13.50.60

स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः ।
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥

13.50.61

ततोऽपरं वनोद्देशं रमणीयमपश्यत । सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः ।
रमणीयैर्वनोद्देशैस्तत्रतत्र विभूषितम् ॥

13.50.62

तत्राश्रमपदं दिव्यं ददर्श भगवानथ ॥

13.50.63

शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ।
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥

13.50.64

अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ ।
भृशं तस्य मनो रमे महर्षेर्भावितात्मनः ॥

13.50.65

स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् ।
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥

13.50.66

महान्तो यत्र विविधा मणिकाञ्चनपर्वताः ।
विमानानि च रम्याणि रत्नानि विविधानि च ॥

13.50.67

मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम् ।
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥

13.50.68

नानाविधैश्च भवनैर्विचित्रमणितोरणैः ।
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः ॥

13.50.69

मनोद्दष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ।
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम् ॥

13.50.70

ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति ।
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ॥

13.50.71

अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै ॥

13.50.72

अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः ।
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥

13.50.73

यांयामपश्यत्कन्यां वै सासा तस्य मनोऽहरत् । न च शक्तो वारयितुं मनोऽस्याथावसीदति ।
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ॥

13.50.74

अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति । स च तासां सुरुपेण तस्यैव भवनस्य च ।
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः ॥

13.50.75

तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ।
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥

13.50.76

स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा ।
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥
अष्टावक्र उवाच ।

13.50.77

सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु ।
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः ॥

13.50.78

ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा । निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठतः ।
तया सम्पूजितस्तत्र शयने चापि निर्मले ॥

13.50.79

अथ तां संविशन्प्राह शयने भास्वरे तदा ।
त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥

13.50.80

संलापात्तेन विप्रेण तथा सा तत्र भाषिता ।
द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥

13.50.81

अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ।
व्यपदिश्य महर्षेर्वै शयनं व्यवरोहत ॥

13.50.82

स्वागतेनागतां तां तु भगवानभ्यभाषत ।
सा जुगूह भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥

13.50.83

निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ।
दुखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥

13.50.84

ब्रह्मन्नकामकरोस्ति स्त्रीणां पुरुषतो धृतिः ।
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥

13.50.85

प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ।
उपगूह च भां विप्र कामार्ताऽहं भृशं त्वयि ॥

13.50.86

एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम् ।
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥

13.50.87

सद्म चेदं धनं सर्वं यच्चान्यदपि पश्यसि ।
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः ॥

13.50.88

सर्वान्कामान्विधास्यामि रमस्व सहितो मया ।
रमणीये वने विप्र सर्वकामफलप्रदे ॥

13.50.89

त्वद्वशाऽहं भविष्यामि रंस्यसे च मया सह ।
सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः ॥

13.50.90

नातः परं हि नारीणां विद्यते च कदाचन ।
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥

13.50.91

आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥
अष्टावक्र उवाच ।

13.50.92

परदारानहं भद्रे न गच्छेयं कथञ्चन ।
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम् ॥

13.50.93

शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते ।
पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः ॥

13.50.94

भद्रे निर्वेष्टुकामोऽहं तत्रावकिरणं मम ।
प्रायश्चित्तं महदतो दारग्रहणपूर्वकम् ॥

13.50.95

बीजं न शुद्ध्यते वोढुरन्यथा कृतनिष्कृतेः । मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः ॥

13.50.96

विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ।
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ॥

13.50.97

भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह ॥
स्त्र्युवाच ।

13.50.98

नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ।
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥

13.50.99

सहस्रे किल नारीणां प्राप्येतैका कदाचन ।
तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥

13.50.100

नैता जानन्ति पितरं न कुलं न च मातरम् ।
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् ॥

13.50.101

लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।
दोषान्सर्वाश्च मत्वाऽशु प्रजापतिरभाषत ॥
भीष्म उवाच ।

13.50.102

ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत ।
आस्यतांरुचितश्छन्दः किञ्च कार्यं ब्रवीहि मे ॥

13.50.103

सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः ।
वस तावन्महाभाग कृतकृत्यो भविष्यसि ॥

13.50.104

ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर ।
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥

13.50.105

अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम् ।
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥

13.50.106

यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा ।
नारमत्तत्रतत्रास्य दृष्टी रूपविरागिता ॥

13.50.107

देवतेयं गृहस्यास्य शापात्किन्नु विरूपिता ।
अस्याश्च कारणं वेत्तुं न युक्तं सहसा भया ॥

13.50.108

इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः ।
व्यगमद्रात्रिशेषः स मनसा व्याकुलेन तु ॥

13.50.109

अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः ।
रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव ॥

13.50.110

स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय ।
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc