भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.51

13.51.1

अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति ।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥

13.51.2

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत ॥

13.51.3

शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत् ।
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम् ॥

13.51.4

अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा । स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥

13.51.5

जलेन सुसुखोष्णेन तस्या हस्तसुखेन च ।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥

13.51.6

तत उत्थाय स मुनिस्तदा परमविस्मितः ।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥

13.51.7

सन्ध्योपासनमित्येव सर्वपापहरं न मे । तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत् ॥

13.51.8

अथोपास्य सहस्रांशुं किं कोरमीत्युवाच ताम् ।
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत् ॥

13.51.9

तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः ।
व्यगमच्चाप्यहःशेष ततः सन्ध्याऽगमत्पुनः ॥

13.51.10

अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत् ।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥

13.51.11

[पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा । तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत् ॥ ]
अष्टावक्र उवाच ।

13.51.12

न भद्रे परदारेषु मनो मे सम्प्रसज्जति ।
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च ॥
भीष्म उवाच ।

13.51.13

सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते ॥
अष्टावक्र उवाच ।

13.51.14

नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥
स्त्र्युवाच ।

13.51.15

बाधने मैथुनं विप्र मम भक्तिं च पश्य वै ।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥
अष्टावक्र उवाच ।

13.51.16

हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम् ।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज ॥
स्त्र्युवाच ।

13.51.17

शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥

13.51.18

यदि वा दोषजातं त्वं परदारेषु पश्यसि ।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥

13.51.19

न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् । स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि ।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम् ॥
अष्टावक्र उवाच ।

13.51.20

स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति ॥

13.51.21

पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ।
न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे
स्त्र्युवाच ।

13.51.22

कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम ॥
अष्टावक्र उवाच ।

13.51.23

यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम ।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥

13.51.24

आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत् ।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥

13.51.25

किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत् ॥

13.51.26

यथा मे परमा शक्तिर्न व्युत्थाने कथञ्चन ।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc