भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.49

13.49.1

महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः ।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥

13.49.2

पुरा पुत्र मया मेरौ तप्यता परमं तपः ।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥

13.49.3

लब्धवानीप्सितं काममहं वै पाण्डुनन्दन ।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥

13.49.4

कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः । मया जन्मान्यनेकानि भक्त्या चाराधितो भवः ।
प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम् ॥

13.49.5

चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा ।
आलम्बायन इत्येवं विश्रुतः करुणात्मकः ॥

13.49.6

मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः ।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥

13.49.7

अजराणामदुःखानां शतवर्षसहस्रिणाम् ।
लब्धं पुत्र शतं शर्वात्पुरा पाण्डुनृपात्मज ॥

13.49.8

वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः ।
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति ॥

13.49.9

उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ।
सोऽहमीशानमनघममोघं शरणं गतः ॥

13.49.10

मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः ।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥

13.49.11

जामदग्न्यश्च कौन्तेयमिदं धर्मभृतांवरः ।
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः ॥

13.49.12

पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज ।
शुचिर्भूत्वा महादेवं गतोस्मि शरणं नृप ॥

13.49.13

नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः ।
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे ॥

13.49.14

पापं च ते न भविता अजेयश्च भविष्यसि ।
न ते प्रभविता मृत्युरजरश्च भविष्यसि ॥

13.49.15

आह मां भगवानेवं शिखण्डी शिवविग्रहः ।
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥

13.49.16

विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम् । ब्राह्मणोऽहं भवानीति मया चाराधितो भवः ।
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत् ॥

13.49.17

असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ॥

13.49.18

शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा ।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः ॥

13.49.19

ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा ।
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥

13.49.20

वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ॥

13.49.21

वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ।
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते ॥

13.49.22

समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम ।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥

13.49.23

एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः ।
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः ॥

13.49.24

दशवर्षसहस्राणि दशाष्टौ च शतानि च ।
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते ॥

13.49.25

अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥

13.49.26

तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥

13.49.27

अजरश्चामरश्चैव भविता दुखवर्जितः ।
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥

13.49.28

अनुग्रहानेवमेष करोति भगवान्विभुः ।
अयं धाता विधाता च सुखदुःखे च सर्वदा ॥

13.49.29

अचिन्त्य एष भगवान्कर्मणा मनसा गिरा ।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥

13.49.30

वासुदेवस्तदोवाच पुनर्मतिमतांवरः ।
सुवर्णाक्षो महादेवस्तपसा तोषितो मया ॥

13.49.31

ततोऽथ भगवानाह प्रीतो मा वै युधिष्ठिर ।
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि ॥

13.49.32

अपराजितश्च युद्धेषु तेजश्चैवानलोपमम् ।
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ ॥

13.49.33

मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया ।
वर्षायुतासहस्राणां सहस्रं शतमेव च ॥

13.49.34

ततो मां भगवान्प्रीत इदं वचनमब्रवीत् ।
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते ॥

13.49.35

ततः प्रणम्य शिरसा इदं वचनमब्रवम् ।
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः ॥

13.49.36

नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा ।
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत ॥
जैगीषव्य उवाच ।

13.49.37

ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा ।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर ॥
गर्ग उवाच ।

13.49.38

चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम् ।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥

13.49.39

तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् ।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥
पराशर उवाच ।

13.49.40

प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप ।
महातपा महातेजा महायोगी महायशाः ॥

13.49.41

वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः ।
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात् ॥

13.49.42

इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ।
मयि सम्भावना यास्याः फलात्कृष्णो भविष्यति ॥

13.49.43

सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ।
वेदानां च स वै वक्ता कुरुवंशकरस्तथा ॥

13.49.44

इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ।
भविष्यति महेन्द्रस्य दयितः स महामुनिः ॥

13.49.45

अजरश्चामरश्चैव पराशर सुतस्तव । एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥
माण्डव्य उवाच ।

13.49.46

अचोरश्चोरशङ्कायां शूले भिन्नो ह्यहं तदा ॥

13.49.47

तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर ।
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ॥

13.49.48

रुजा शूलकृता चैव न ते विप्र भविष्यति ।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यति ॥

13.49.49

पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव ।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥

13.49.50

तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि ।
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥

13.49.51

एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः । महेश्वरो महाराजः कृत्तिवासा महाद्युतिः ।
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥
गालव उवाच ।

13.49.52

विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ।
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥

13.49.53

कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम् ।
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥

13.49.54

श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ।
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥

13.49.55

पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ।
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥

13.49.56

अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर । अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ।
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून् ॥

13.49.57

तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ।
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव ॥

13.49.58

दिष्ट्या दृष्टोसि मे पुत्र कृतविद्य इहागत ॥
वैशम्पायन उवाच ।

13.49.59

एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः ।
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥

13.49.60

ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः ।
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः ॥

13.49.61

उपमन्युर्मयि प्राह तपन्निव दिवाकरः ।
अशुभैः पापकर्माणो ये नराः कलुषीकृताः ॥

13.49.62

ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः ।

13.49.63

ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः ॥

13.49.64

सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे ।
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम् ॥

13.49.65

ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह । त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति

13.49.66

मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः ।
विधूय सर्वपापानि देवैः सह वसन्ति ते ॥

13.49.67

भित्त्वाभित्त्वा च कूलानि हुत्वा सर्वमिदं जगत् ।
जयेद्देवं विरूपाक्षं न स पापेन लिप्यते ॥

13.49.68

सर्वलक्षणहीनोपि युक्तो वा सर्वपातकैः । सर्वं तुदति तत्पापं भावयञ्शिवमात्मना

13.49.69

कीटपक्षिपतङ्गानां तिरश्चामपि केशव ।
महादेवप्रपन्नानां न भयं विद्यते क्वचित् ॥

13.49.70

एवमेव महादेवं भक्ता ये मानवा भुवि । न ते संसारवशगा इति मे निश्चिता मतिः ।
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम् ॥
विष्णुरुवाच ।

13.49.71

आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे ।
धाताऽर्यमा शुक्रबृहस्पती च वेदा यज्ञा दक्षिणा वेदवाहाः ।

13.49.72

सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा संयमा ये च केचित् ॥

13.49.73

स्वाहा वौषट् ब्राह्मणाः सौरभेयी धर्मं चाग्र्यं कालचक्रं बलं च ।
यशो दमो बुद्धिमतां स्थितिश्च शुभाशुभं ये मुनयश्च सप्त ॥

13.49.74

अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः ।
गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥

13.49.75

आभासुरा गन्धपा धूमपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः ।
शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥

13.49.76

चिन्त्यद्योता ये च देवेषु मुख्या ये चाप्यन्ते देवताश्चाजमीढ ।
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा चारणपन्नगाश्च ॥

13.49.77

स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं दुःखं सुखं दुःखमनन्तरं च ।
साङ्ख्यं योगं तत्पराणां परं च शर्वाञ्जातं विद्धि य*********** ॥

13.49.78

तत्सम्भूता भूतकृतो वरेण्या सर्वे देवा भुवनस्यास्य गोपाः ।
आविश्येमां धरणीं येऽभ्यरक्षन् पुरातनीं तस्य देवस्य सृष्टिम् ॥

13.49.79

विचिन्वन्तस्तपसा तत्स्थवीयः किञ्चित्तत्त्वं प्राणहेतोर्नतोस्मि ।
ददातु वेदः स वरानिहेष्टा- नभिष्टुतोः नः प्रभुरव्ययः सदा ॥

13.49.80

इमं स्तवं सन्नियतेन्द्रियश्च भूत्वा शुचिर्यः पुरुषः पठेत ।
अभग्नयोगो नियतो मासमेकं सम्प्राप्नुयादश्वमेधे फलं यत् ॥

13.49.81

वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु जयेन्नृपः पार्थ महीं च कृत्स्नाम् ।
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥

13.49.82

स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः ।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः ॥

13.49.83

यावन्त्यस्य शरीरेषु रोमकूपाणि भारतः ।
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc