महाभारत · अध्याय 13.27
हत्वा तं पक्षिशार्दूलः कुविन्दानां जनं व्रती । उपोपविश्य शैलाग्रे भक्षयामास तावुभौ ।
वारणं कच्छर्प चैव संहृष्टः स पतत्रिराट् ॥
तयोः स रुधिरं पीत्वा मेदसी च परन्तप । संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम् ।
जन्गाम देवराजस्य भवनं पन्नगाशनः ॥
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् ।
रात्रिदिवं प्रज्वलितं रक्षार्थममृतस्य ह ॥
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमुपाविशत् ।
नतु तोयान्न रक्षिभ्यो भयमस्योपपद्यते ॥
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् ।
पितामहमथो गत्वा ददर्श भुजगाशनः ॥
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः ।
प्रोवाच तदसन्दिग्धं वचनं पन्नगेश्वरः ॥
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम् ।
विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम् ॥
कद्रूसकाशममृतं मयाहर्तव्यमीश्वर ।
तदा मे जननी देव दासभावात्प्रमोक्ष्यते ॥
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति ।
हिरण्यरेता भगवान्पाकशासनशासनात् ॥
तत्र मे देवदेवेश भयं तीव्रमथाविशत् ।
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो ॥
समतिक्रमितुं शक्यः कथं स्यात्पावको मया ।
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो ॥
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम् ।
अग्नेः संशमनोपायमुत्सयन्त पुनःपुनः ॥
पयसा शाम्यते वत्स सर्पिषा च हुताशनः ।
शरीरस्थोपि भूतानां किं पुनः प्रज्वलन्भुवि ॥
नवनीतं पयो वाऽपि पावके त्वं समादधेः । ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0