भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.26

13.26.1

कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ ॥
युगपद्गृहीतं तं मे त्वमुपायं वक्तुमर्हसि ॥
कश्यय उवाच ।

13.26.2

योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः ।
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः ॥

13.26.3

जलजं निर्गतं तात प्रमत्तं चैव वारणम् ।
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते ॥
भीष्म उवाच ।

13.26.4

इत्येमुक्तो विहगस्तद्गत्वा वनमुत्तमम् ।
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् ॥

13.26.5

तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारतः ।
स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः ॥

13.26.6

बिभक्षयिषतो राजन्दारुणस्य महात्मनः ॥
मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत् ॥

13.26.7

अथ वेगेन महता खेचरः स महाबलः ।
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत ॥

13.26.8

तथा गत्वा तमध्वानं वारणप्रवरो बली ।
निशश्वास महाश्वासः श्रमाद्विश्रमणाय च ॥

13.26.9

तस्य निश्वासवातेन मदगन्धेन चैव ह ।
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः ॥

13.26.10

तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः ।
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्वादयोरिव ॥

13.26.11

स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम् ।
दन्तैर्नस्तैश्च जलजो वारयामास भारत ॥

13.26.12

जलजं वारणोऽप्येवं चरणैः पुष्करेण च ।
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च ॥

13.26.13

मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम् ।
अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः ॥

13.26.14

स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत ।
तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः ॥

13.26.15

तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात् ।
अभिदुद्राव वेगेन वज्रयाणिरिवासुरम् ॥

13.26.16

तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम् ।
उभावेव समस्तौ तु जग्राह विनतासुतः ॥

13.26.17

चरणेन तु सव्येन जग्राह स गजोत्तमम् ।
प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम् ॥

13.26.18

उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः ।
दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः ॥

13.26.19

तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम् ।
वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः ॥

13.26.20

तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ ।
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह ॥

13.26.21

अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते ।
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम् ॥

13.26.22

नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः ।
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम् ॥

13.26.23

हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम् ।
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः ॥

13.26.24

तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम् ।
दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता ॥

13.26.25

तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ ।
अत्तुकामस्ततः शाखा तस्य वेगादवापतत् ॥

13.26.26

तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः ।
आसीनान्वसुभिः सार्धं सत्रेण जगतीपते ॥

13.26.27

वैखानसान्नाम यतीन्वालखिल्यगणानपि ।
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत ॥

13.26.28

तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह । तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः ।
तौच पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत् ॥

13.26.29

तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम् । ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह ।
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः ॥

13.26.30

असौ यच्छति धर्मात्मा गुरुभारसमन्वितः ।
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः ॥

13.26.31

एवं ते समयं सर्वे वसवश्च दिवौकसः ।
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह ॥

13.26.32

स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः ।
मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत ॥

13.26.33

स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः ।
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च ॥

13.26.34

वैनतेय कुविन्देषु समुद्रान्ते महाबल ।
पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः ॥

13.26.35

तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः ।
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः ॥

13.26.36

ततो गत्वा ततः शाखां मुमोच पततांवरः ।
तया हता ********* दास्तदा षड्विंशतो नृप ॥

13.26.37

स देशो राजशार्दूल ख्यातः परमदारुणः । शाखापतग इत्येव कुविन्दानां महात्मनाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc