भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.28

13.28.1

पितामहवचः श्रुत्वा गरुडः पततांवरः ।
जगाम गोकुलं किञ्चिन्नवनीतजिहीर्षया ॥

13.28.2

नवनीतं तथाऽपश्यन्मथितं कलशे स्थितम् ।
तदादाय ततोऽगच्छद्यतस्तद्रक्ष्यतेऽमृतम् ॥

13.28.3

स तत्र गत्वा पतगस्तिर्यक्तोयं महाबलः ।
हुताशनमपक्रम्य नवनीतमपातयत् ॥

13.28.4

सो र्चिष्मान्मन्दवेगोऽभूत्सर्पिषा तेन तर्पितः ।
धूमकेतुर्न जज्वाल धूममेव ससर्ज ह ॥

13.28.5

तमतीत्याशु गरुडो हृष्टात्मा जातवेदसम् ।
रक्षांसि समतिक्रामत्पक्षवातेन पातयन् ॥

13.28.6

ते पतन्ति शिरोभिस्च जानुभिश्चरणैस्तथा ।
उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः ॥

13.28.7

उत्प्लुत्य चावृतान्नागान्हत्वा चक्रं व्यतीत्य च ।
अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् ॥

13.28.8

स भित्त्वा शिरसा जालं वज्रवेगसमो बली ।
उज्जहार ततः शीघ्रममृतं भुजगाशनः ॥

13.28.9

तदादायाद्रवच्छीघ्रं गरुडः श्वसनो यथा ।
अथ सन्नाहमकरोद्वृत्रहा विबुधैः सह ॥

13.28.10

ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः ।
आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् ॥

13.28.11

सोऽभ्यद्रवत्पक्षिराजं वृत्रहा पाकशासनः ।
उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः ॥

13.28.12

तथैव गरुडो राजन्वज्रहस्तं समाद्रवत् ।
ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः ॥

13.28.13

अथ दिव्यं महाघोरं गरुडाय ससर्ज ह ।
वज्रं सहस्रनयनस्तिग्मवेगपराक्रमः ॥

13.28.14

उत्सिसृक्षन्तमाज्ञाय वज्रं वै त्रिदशेश्वरम् ।
तूर्णं वेगपरो भूत्वा जगाम पततांवरः ॥

13.28.15

पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः ।
आयुधानां वरं वज्रमथ शक्रमुवाच ह ॥

13.28.16

वृत्रहन्नेष वज्रस्ते वरो लब्धः पितामहात् ।
अतः सम्मानमाकाङ्क्षन्मुञ्चाम्येकं तनूरुहम् ॥

13.28.17

एतेनायुधराजेन यदि शक्तोसि वृत्रहन् ।
हन्यास्त्वं परया शक्तया गच्छाम्यहमनामयः ॥

13.28.18

तत्तु तूर्णं तदा वज्रं स्वेन वेगेन भारत ।
जघान परया शक्त्या न चैनमदहद्भृशम् ॥

13.28.19

ततो देवर्षयो राजन्गच्छन्तो वै विहायसा ।
दृष्ट्वा वज्रं विवक्तं तं पक्षैपर्णेऽब्रुवन्वचः ॥

13.28.20

सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् ।
विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् ॥

13.28.21

एवं सुपर्णो विहगो वैनतेयः प्रतापवान् ।
ऋषयस्तं विजानन्ति चाग्नेयं वैष्णवं पुनः ॥

13.28.22

वेदाभिष्टुतमत्यर्थं स्वर्गमार्गफलप्रदम् ।
तनुपर्णं सुपर्णस्य जगृहुर्बर्हिणस्तथा ॥

13.28.23

मयूराविस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc