भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.261

13.261.1

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् ।
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥

13.261.2

घोरे तमस्ययुध्यन्त सहिता देवदानवाः ।
अविद्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥

13.261.3

अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः ।
देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥

13.261.4

असुरेर्वध्यमानास्ते क्षीणप्राणा दिवौकसः ।
अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम् ॥

13.261.5

अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् ।
असुरेरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥

13.261.6

वयं वध्यामहे चापि शत्रुभिस्तमसा वृते ।
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥
अत्रिरुवाच ।

13.261.7

कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव ।
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव ॥

13.261.8

एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी ।
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः ॥

13.261.9

दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव ।
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥

13.261.10

जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा ।
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ॥

13.261.11

अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् । पराक्रमैस्तेऽपिं तदा व्यघ्नन्नत्रिसुरक्षिताः ।
उद्भासितश्च सविता देवास्त्राता हतासुराः ॥

13.261.12

अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ।
द्विजेनाग्निद्वितीयेनि जपता चर्मवाससा ॥

13.261.13

फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् । तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः ।
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥

13.261.14

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥

13.261.15

अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् ।
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु ॥
इन्द्र उवाच ।

13.261.16

अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम् ।
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः ॥

13.261.17

अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत ।
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः ॥
च्यवन उवाच ।

13.261.18

पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ ।
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर ॥

13.261.19

क्रियतां मद्वचो देवा यथा वै समुदाहृतम् ।
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम् ॥
इन्द्र उवाच ।

13.261.20

अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम ।
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥
च्यवन उवाच ।

13.261.21

न चेत्करिष्यसि वचो मयोक्तं बलसूदन ।
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥
वायुरुवाच ।

13.261.22

ततः कर्म समारब्धं हिताय सहसाऽश्विनोः ।
च्यवनेनि ततो मन्त्रैरभिभूताः सुराऽभवन् ॥

13.261.23

तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः ।
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥

13.261.24

तथा वज्रेम भगवानमर्षाकुललोचनः ।
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः ॥

13.261.25

अद्भिः सिक्त्वाऽस्तम्ययतं सवज्रं सहपर्वतम् ।
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि ॥

13.261.26

मदं नामाहुतिमयं व्यादितास्यं महामुनिः ।
तस्य दन्तसहस्रं तु बभूव शतयोजनम् ॥

13.261.27

द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ।
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम् ॥

13.261.28

जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः ।
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥

13.261.29

ते सम्मन्त्र्य ततो देवा मदस्यास्य समीपगाः ।
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥

13.261.30

अश्विभ्यां सह सोमं च पिबाम विगतज्वराः ।
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ॥

13.261.31

च्यवनः कृतवानेतावश्विनौ सोमपायिनौ ।
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ॥

13.261.32

अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ।
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः ॥

13.261.33

तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेतद् ॥

13.261.34

एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम् ।
ब्रवीम्यन्यं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc