भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.260

13.260.1

इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्ममस्य ह ॥

13.260.2

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः ।
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा ॥

13.260.3

कर्मज्या मानवानां च दानवैर्हैहयर्षभ ।
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥

13.260.4

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् ।
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम् ॥

13.260.5

अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च ।
इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥

13.260.6

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्चि भ्रंशिताः ।
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गवः ॥

13.260.7

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ।
प्रजज्वाल च तेजस्वी कालाग्निरिव सन्क्षये ॥

13.260.8

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा ।
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः ॥

13.260.9

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा ।
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम् ॥

13.260.10

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः ।
येन्येऽधस्ता महीस्थाश्च तेन दग्धा महासुराः ॥

13.260.11

त्यक्तलोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप ।
अथैनमब्रुवन्देवा भूमिष्ठानसु राञ्जहि ॥

13.260.12

इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान् ।
दग्धुं तपो हि क्षीयेन्मे न धक्ष्यामीति पार्थिव ॥

13.260.13

एवं दग्धा भगवता दानवाः स्वेन तेजसा ।
अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥

13.260.14

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ ।
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥
भीष्म उवाच ।

13.260.15

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥

13.260.16

वैखानसविधानेन गङ्गातीरं समाश्रिताः । आदित्याः सत्रमासन्त सरो वैखानसं प्रति ।
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्वस्य गोचरम् ॥

13.260.17

यजमानांस्तु तान्दृष्वा सर्वान्दीक्षानुकर्शितान् ।
हन्तुमैच्छन्त शैलाभा बलिनो नाम दानवाः ॥

13.260.18

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः ।
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः ॥

13.260.19

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् ।
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम् ॥

13.260.20

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि ।
ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥

13.260.21

स च तैर्व्यथितः शक्रो वसिष्ठं सरणं ययौ ।
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥

13.260.22

तदा तान्दुःकितान्ज्ञात्वा आनृशंस्यपरो मुनिः ।
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा ॥

13.260.23

कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः ।
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥

13.260.24

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् ।
हताश्च बलिनो यत्र स देशे बलिनोऽभवत् ॥

13.260.25

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः ।
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥

13.260.26

एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ ।
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ 26 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc