भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.262

13.262.1

तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः ।
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥

13.262.2

मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः ।
तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा ॥

13.262.3

उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन् ।
शोकार्ताश्त महात्मानं ब्रह्माणं शरणं ययुः ॥
देवा ऊचुः ।

13.262.4

मदास्यव्यतिषिक्तानामस्माकं लोकपूजित ।
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो ॥
ब्रह्मोवाच ।

13.262.5

गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः ।
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम् ॥

13.262.6

ते ययुः शरणं विप्रानूचुस्ते काञ्जयामहे ।
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥

13.262.7

भूगतान्हि विजेतारो वयमित्यब्रुवन्द्विजाः ।
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ॥

13.262.8

तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ।
स च तान्ब्राह्मणानाह धनी कपवचो यथा ॥

13.262.9

भवद्भिः सदृशः सर्वे कपाः किमिह वर्तते ।
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ॥

13.262.10

सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ।
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ॥

13.262.11

वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते ।
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः ॥

13.262.12

सर्वे च नियतात्मानो बालानां संविभागिनः । उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम् ।
स्वर्गातिं चैव गच्छन्ति तथैव शुभकर्मिणः ॥

13.262.13

अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु ।
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते ॥

13.262.14

एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् ।
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः ॥
ब्राह्मणा ऊचुः ।

13.262.15

कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः ।
तस्माद्वध्याः कपाऽस्माकं धनिन्याहि यथागतम् ॥

13.262.16

धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः ।
गृहीत्वाऽस्त्राण्यतो विप्रान्कपाः सर्वे समाद्रवन् ॥

13.262.17

समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः ।
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥

13.262.18

ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा सनातनाः ।
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप ॥

13.262.19

हत्वा वै दानवान्देवाः सर्वे सम्भूय संयुगे ।
ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान् ॥

13.262.20

अथागम्य महातेजा नारदोऽकथयद्विभो ।
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः ॥

13.262.21

नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः ।
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः ॥

13.262.22

तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः ।
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥

13.262.23

इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह ।
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥
अर्जुन उवाच ।

13.262.24

जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो ।
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥

13.262.25

दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम् ।
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान् ॥

13.262.26

अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः ।
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च ॥
वायुरुवाच ।

13.262.27

ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च ।
विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc