भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.241

13.241.1

मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा ।
यथा शुभगतिर्जीवो नासौ त्वशुभभागिति ॥

13.241.2

एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.241.3

तदहं ते प्रवक्ष्यामि जीवितं विद्यते यथा ।
द्विविधाः प्राणिनो लोके दैवमासुरमाश्रिताः ॥

13.241.4

मनसा कर्मणा वाचा प्रतिकला भवन्ति ये ।
तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः ॥

13.241.5

हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शकाः ।
नीचकर्मरता ये च शौचमङ्गलवर्जिताः ॥

13.241.6

शुचिविद्वेषिणः पापा लोकचारित्रदूषकाः ।
एवं युक्तसमाचारा जीवन्तो नरकालयाः ॥

13.241.7

लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः ।
वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान् ॥

13.241.8

अपरान्देवपक्षांस्तु शृणु देवि समाहिता ॥

13.241.9

मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये ।
तादृशानमरान्विद्धि ते नराः स्वर्गगामिनः ॥

13.241.10

शौचार्जवपरा धीराः परार्थं नाहरन्ति ये ।
ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः ॥

13.241.11

भयाद्वा वृत्तिहेतोर्वा अनृतं न वदन्ति ये ।
सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः ॥

13.241.12

धार्मिकाः शौचसम्पन्नाः शुक्ला मधुरवादिनः ।
नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः ॥

13.241.13

स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनम् । दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम् ।
ददत्येव च यत्किञ्चित्ते नराः स्वर्गगामिनः ॥

13.241.14

आस्तिका मङ्गलपराः सततं वृद्धसेविनः ।
पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः ॥

13.241.15

व्रतिनो दानशीलाश्च धर्मशीलाश्च मानवाः ॥
ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः ॥

13.241.16

गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः ।
कृजज्ञाः कृतविद्याश्च ते नराः स्वर्गगामिनः ॥

13.241.17

जितेन्द्रिया जितक्रोधा जितमानमदाः स्मृताः ।
लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः ॥

13.241.18

निर्मा निरहङ्कारः सानुक्रोशाः स्वबन्धुषु ।
दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः ॥

13.241.19

ऐहिकेन तु वृत्तेन पारत्रमनुमीयते ।
एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः ॥

13.241.20

यदन्यच्च शुभं लोके प्रजानुग्रहकारि च । पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः ।
तादृशान्देवपक्षस्थानिति विद्धि शुभानने ॥

13.241.21

शुभाशुभप्रयं लोके सर्वं स्थावरजङ्गमम् ।
दैवं शुभमिति प्राहुरासुरं चाशुभं प्रिये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc