भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.240

13.240.1

भगवन्सर्वभूतेश पुरमर्दन शङ्कर ।
श्रुतं पापकृतां दुःखं यमलोके वरप्रद ॥

13.240.2

श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम् ।
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर ॥

13.240.3

कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् ।
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे ॥
महेश्वर उवाच ।

13.240.4

शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने ।
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः ॥

13.240.5

मेरुं हि कनकात्मानं परितः सर्वतोदिशम् ।
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा ॥

13.240.6

जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः ।
तेषु भूत्वा स्वयम्भूताः प्रदृश्यते यतस्ततः ॥

13.240.7

योजनानां सहस्रं च एकैकं मानमात्रया ।
नित्यं पुष्पफलोपेतास्तत्र वृक्षाः समन्ततः ॥

13.240.8

आसक्तवस्त्राभरणाः सर्वे कनकसन्निभाः । द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः ।
विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान् ॥

13.240.9

कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः ।
तत्र वान्त्यनिला नित्यं दिव्यगन्धसुखावहाः ॥

13.240.10

सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः ।
एवं बहुविधा देवि दिव्यभोगाः सुखावहाः ॥

13.240.11

स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः ।
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः ॥

13.240.12

मनोहरा महाभागाः सर्वे ललितकुण्डलाः ।
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः ॥

13.240.13

नानाभावसमायुक्ता यौवनस्थाः सदैव तु ।
युवत्यः कल्पितास्तत्र कामजा ललितास्तथा ॥

13.240.14

मनोनुकूला मधुरा भोगिनामुपकल्पिताः ।
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा ॥

13.240.15

एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम् ।
रमन्ते चेन्द्रियैः स्वस्थै शरीरैर्भोगसंस्कृतैः ॥

13.240.16

कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये ।
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने ॥

13.240.17

सर्वतो रमणीयं च सर्वत्र कुसुमान्विम् । यावत्पुण्यफलं तावद्दृश्यन्ते बहुसङ्गताः ।
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः ॥

13.240.18

तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः ।
नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये ॥

13.240.19

स्वर्गलोकात्परिभ्रष्टाः जायन्ते मानुषे पुनः ।
पूर्वपुण्यावशेषेण विशिष्टाः सम्भवन्ति ते ॥

13.240.20

एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि । अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये ।
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् ॥

13.240.21

विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः ।
अप्सरोदानवा देवा यथाक्रममुदाहृताः ॥

13.240.22

तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः ।
तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः ॥

13.240.23

स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च ।
रूपसत्वबलोपेताः सर्वे दीर्घायुषस्तथा ॥

13.240.24

तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते ।
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम् ॥

13.240.25

जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते ।
गुणा दोषाश्च सन्त्यत्र आकाशगमनं तथा ॥

13.240.26

अन्तर्धानं बलं सत्त्वमायुश्च चिरजीवितम् ।
तपोविशेषज्जायन्ते यथा कर्म्णि भामिनि ॥

13.240.27

देवलोके प्रवृत्तिस्तु तेषामेव विधीयते । न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः ॥ इ

13.240.28

तत्र भोगमनिर्देश्यममृतत्वं च विद्यते ।
विमानगमनं नित्यमप्सरोगणसेवितम् ॥

13.240.29

एवमन्यच्च तत्कर्म देवताभ्यो विशिष्यते ।
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम् ॥

13.240.30

तस्मान्न वर्णये देवि विदितं च त्वया शुभे ।
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc