भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.242

13.242.1

भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः ।
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः ॥
महेश्वर उवाच ।

13.242.2

हन्त ते कथयिष्यामि शृणु देवि समाहिता ।
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा ॥

13.242.3

तयोः स्वभावं नापायं यत्नतः करणोद्भवम् ।
एतयोरुभयोर्देवि विधानं शृणु शोभने ॥

13.242.4

कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् ।
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया ॥

13.242.5

तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम् । महाप्रस्थानगमनं तथा प्रायोपवेशनम् ।
जलावगाहनं चैव अग्निचित्यां प्रवेशनम् ॥

13.242.6

एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् ।
एतेषां क्रमयोगेन विधानं शृणु शोभने ॥

13.242.7

स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः ।
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा ॥

13.242.8

दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च ।
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा ॥

13.242.9

दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः ।
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् ॥

13.242.10

अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना ।
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरसरम् ॥

13.242.11

परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम् ।
महाप्रस्तानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम् ॥

13.242.12

भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम् । चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत् ।
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते ॥

13.242.13

प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः ।
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत् ॥

13.242.14

अप्राणं तु शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः । पुण्यं परित्यजेत्प्राणानेष धर्मः सनातनः ।
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते ॥

13.242.15

अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे ।
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा ॥

13.242.16

दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम् । भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम् ।
सोपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम् ॥

13.242.17

जलावगाहनं चेच्छेत्तेनैव विधिना शुभे ।
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन् ॥

13.242.18

सोपि पुण्यतमाँल्लोकान्निःसङ्गात्प्रतिपद्यते ।
ततः कल्यशरीरस्य सन्त्यागं शृणु तत्वतः ॥

13.242.19

रक्षार्थं क्षत्रियः श्रेष्ठः प्रजापालनकारणात् ।
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् ॥

13.242.20

गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते ।
स्वराज्यरक्षणार्तं वा कुजनैः पीडिताः प्रजाः ॥

13.242.21

मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि । सुसन्नद्धो व्यवसितः सम्प्रविश्यापराङ्मुखः ।
एवं राजा मृतः सद्यः स्वर्गलोके महीयते ॥

13.242.22

तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः ।
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते ॥

13.242.23

कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया ।
स्वाम्यर्थं सन्त्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति ॥

13.242.24

स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा ।
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम् ॥

13.242.25

सोपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया ।
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः ॥

13.242.26

कामक्रोधाद्भयाद्वाऽपि यदि चेत्सन्त्यजेत्तनुम् ।
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् ॥

13.242.27

स्वभावं मरणं नाम न तु चात्मेच्छया भवेत् ।
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि ॥

13.242.28

तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते ।
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः ॥

13.242.29

निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम् ।
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि ॥

13.242.30

श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम् ।
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम् ॥

13.242.31

दिवा च शुक्लपक्षश्च उत्तरायणमेव च ।
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् ॥

13.242.32

औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम् । आप्यायनं मृतानां तत्परलोके भवेच्छुभम् ।
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc