भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.127

13.127.1

केन वर्णविभागेन विज्ञेया कपिला भवेत् ।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा ॥
श्रीव्यास उवाच ।

13.127.2

शृणु तात यथा गोषु विज्ञेया कपिला भवेत् । नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च ।
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः ॥

13.127.3

एतेषां लक्षणानां तु यद्येकमपि दृश्यते ।
कपिलां तां विजानीयादेवमाहुर्मनीषिणः ॥

13.127.4

आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत् ।
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत ॥

13.127.5

कर्णतस्तु वसन्तेन स्वयोनिमभिजायते ।
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता ॥

13.127.6

एवं गावश्च विप्राश्च गायत्री सत्यमेव च ।
वसन्तश्च सुवर्णश्च एकतः समजायत ॥

13.127.7

नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा ।
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते ॥

13.127.8

नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते ।
यदा लभेत मानुष्यं जात्यन्धो जायते नरः ॥

13.127.9

शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा ।
तिर्यग्योनिं स लभते जायमानः पुनः पुनः ॥

13.127.10

खुरेषु कपिलां यस्तु वाहयेत दुहेत वा ।
तमस्यपारे मज्जेत धनहीनो नराधमः ॥

13.127.11

कपिलां वालधानेषु वाहयेत दुहेत वा ।
निराश्रयः सदा चैव जायते यदि चेत्कृमिः ॥

13.127.12

कर्णेन कपिलां यस्तु जानन्नप्युपजीवति । सहस्रशः शुचिर्भुत्वा मानुष्यं प्राप्नुयादथ ।
चण्डालः पापयोनिश्च जायते स नराधमः ॥

13.127.13

घ्राणेन कपिलां यस्तु प्रमादादुपजीवति ।
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते ॥

13.127.14

व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः ॥

13.127.15

मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः ।
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते ॥

13.127.16

स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत् ।
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः ॥

13.127.17

ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च ।
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc