भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.126

13.126.1

नानावर्णैरुपेतानां गवां किं मुनिसत्तम ।
कपिलाः सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन् ॥
व्यास उवाच ।

13.126.2

शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः ।
कपिलत्वं च सम्प्राप्ताः पूज्याश्चि सततं नृषु ॥

13.126.3

अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् ।
देवेभ्यो मां छादयत शरण्याः शरणं गतम् ॥

13.126.4

ऊचुस्ताः सहितास्तत्र स्वागतं तव पावकः ।
इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे ॥

13.126.5

अथ देवा विवित्सन्तः पावकं परिचक्रमुः ।
गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे ॥

13.126.6

युष्मासु निवसत्यग्निरिति गाः समचूचुदन् ।
प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ ॥

13.126.7

एवमस्त्वित्युनुज्ञाय पावकं समदर्शयन् ॥

13.126.8

अधिगम्य पावकं तुष्टास्ते देवाः सद्य एव तु ।
अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः ॥

13.126.9

गवां तु यासां गात्रेषु पावकः समवस्थितः ।
कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च ॥

13.126.10

महाफलत्वं लोके च ददौ तासां हुताशनः । तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय ।
श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे ॥

13.126.11

यावन्ति रोमाणि भन्ति धेन्वा युगानि तावन्ति पुनाति दातॄन् ।
प्रतिग्रहीतॄंश्च पुनाति दत्ता शिष्टे तु गौर्वै प्रतिपादनेन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc