भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.128

13.128.1

मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥
भीष्म उवाच ।

13.128.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गोभिर्नृपेहं संवादं श्रिया भारतसत्तम ॥

13.128.3

श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह ।
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ॥
गाव ऊचुः ।

13.128.4

काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि ।
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥

13.128.5

इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि ।
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥
श्रीरुवाच ।

13.128.6

लोकस्य कान्तिर्भद्रं वः श्रीर्नामाहं परिश्रुता ।
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥

13.128.7

मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः ।
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ॥

13.128.8

मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा ।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः ॥

13.128.9

धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः ।
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् ॥

13.128.10

इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ।
आगत्य प्रार्थये युष्माञ्श्रीजुष्टा भवताऽनघाः ॥
गाव ऊचुः ।

13.128.11

अध्रुवा चपला च त्वं सामान्या बहुभिः सह ।
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते ॥

13.128.12

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै ।
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥
श्रीरुवाच ।

13.128.13

किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ ।
न मां सम्प्रतिगृह्णीध्वं कस्माद्वै दुर्लभां सतीम् ॥

13.128.14

सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः ।
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥

13.128.15

महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥

13.128.16

क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह ।
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥
गाव ऊचुः ।

13.128.17

नावमान्यामहे देवि न त्वां परिभवामहे ।
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥

13.128.18

बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि ।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे ॥
श्रीरुवाच ।

13.128.19

अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः ।
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतां मम ॥

13.128.20

महाभागा भवत्यो वै शरण्याः शरणागताम् ।
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥

13.128.21

माननामहमिच्छामि भवत्यः सततं शिवाः ।
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते ॥

13.128.22

न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः । पुण्याः पवित्राः सुभगा अवाग्देशं प्रयच्छथ ।
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ ॥

13.128.23

एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः ।
सम्मान्य सहिताः सर्वाः श्रियमुचुर्नराधिप ॥

13.128.24

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नः शुभे ॥
श्रीरुवाच ।

13.128.25

दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः ॥
भीष्म उवाच ।

13.128.26

एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥

13.128.27

एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ।
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc