भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.121

13.121.1

कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः । ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः ॥ ?

13.121.2

ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः ।
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा ॥
स्त्रिय ऊचुः ।

13.121.3

गाव एव वयं सर्वकर्मभिः शोभनैर्युताः । सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामेहे ।
गाव ऊचुः ।

13.121.4

गवां गावः परं दैवं गवां गावः परा गतिः ।
कथयध्वमिहास्माकं केन वः सुकृतां गतिः ॥
स्त्रिय ऊचुः ।

13.121.5

अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा ।
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः ॥

13.121.6

प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा ।
शकटैश्चापि संयुक्ता दशवाहशतेन वै ॥

13.121.7

तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः ।
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः ॥

13.121.8

यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः ।
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा ॥
गाव ऊचुः ।

13.121.9

एवं गवां परं दैवं गाव एव परायणम् ।
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम् ॥

13.121.10

किमस्माभिः करणीयं वर्तितव्यं कथञ्चन ।
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः ॥
स्त्रिय ऊचुः ।

13.121.11

वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् ।
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छतः ॥

13.121.12

ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः ।
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः ॥
भीष्म उवाच ।

13.121.13

एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः ।
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम् ॥

13.121.14

न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् ।
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा ॥

13.121.15

वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन ।
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम् ॥

13.121.16

एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा ।
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम् ॥

13.121.17

न तु तासां समेतानां काचिद्धोरेण चक्षुषा ।
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता ॥

13.121.18

अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः ।
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः ॥

13.121.19

रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः ।
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्चिताः ॥

13.121.20

वयं हि तं वधिष्यामः सुमित्रं नात्रं संशयः ।
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ ॥
गाव ऊचुः ।

13.121.21

कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ ।
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति ॥
भीष्म उवाच ।

13.121.22

एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः । चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc