भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.120

13.120.1

कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा ।
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः ॥

13.120.2

विरुद्वे मानुषे लोके तथा समयवर्त्मसु । क्रते दैवं हि दुष्प्रपं मानुषेषु विशेषतः ।
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि ॥ भीष्म उवाच ।

13.120.3

श्रूयते भार्गवे वंशे सुमित्रो नाम भारत ।
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः ॥

13.120.4

वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा ।
विनयाचारतत्वज्ञः सर्वधर्मार्थकोविदः ॥

13.120.5

यत्नात्त्रिषवणस्नायी सन्ध्योपासनतत्परः ।
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदाः ॥

13.120.6

पितृदेवांश्च नियतमतिर्थींश्च स पूजयन् ।
प्राणसन्धारणार्थं च यत्किञ्चिदुपहारयन् ॥

13.120.7

गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी ।
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता ॥

13.120.8

तस्यास्तीरे समे देशे पुष्पमालासमाकुले ।
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते ॥

13.120.9

व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते ।
कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि ॥

13.120.10

सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते । तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा ।

13.120.11

उवास तत्र नियतः सुमित्रो नाम भार्गवः ।
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना ॥

13.120.12

तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम् ।
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः ॥

13.120.13

स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः ।
सुमित्रः परया भक्त्या जननीमिव मातरम् ॥

13.120.14

तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी ।
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना ॥

13.120.15

सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत् ।
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला ॥

13.120.16

बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा ।
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा ॥

13.120.17

पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना ।
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा ॥

13.120.18

मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना ।
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना ॥

13.120.19

प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता ।
यौवनस्थेव वनिता शुशुभे रूपशोभया ॥

13.120.20

वृषेणोपगता सा तु कल्या मधुरदर्शना ।
मिथुनं जनयामास तुल्यरूपमिवात्मनः ॥

13.120.21

संवर्धयामास स तां सवत्सां भार्गवो मुनिः ।
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत् ॥

13.120.22

गवां जातिसहस्राणि सम्भूतानि परस्परम् ।
ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते ॥

13.120.23

तैराश्रमपदं रम्यमरण्यं चैव सर्वशः ।
समाकुलं समभवन्मेघैरिव नभस्थलम् ॥

13.120.24

कानि चित्पद्मवर्णानि किंशुकाभानि कानिचित् ।
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च ॥

13.120.25

तथा राजतवर्णानि कानिचिल्लोहितानि वै । नीललोहितताम्राणि कृष्णानि कपिलानि च ।
नानारागविचित्राणि यूथानि कुलयूथप ॥

13.120.26

न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति ।
भार्गवः केवलं चासीद्गवां प्राणायने रतः ॥

13.120.27

तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः ।
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः ॥

13.120.28

क्षुत्पिपासापरिश्रान्तः सततं प्रस्रवं गवाम् ।
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु ॥

13.120.29

पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम् ।
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc