महाभारत · अध्याय 13.122
यास्तु गोमातरस्तस्य कामचारिण्य आगताः ।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः ॥
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः ।
गोलोकादागता वेद वृषगोमातरो वयम् ॥
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने ।
यद्भि गोषु परां बुद्धिं कृतवानसि नित्यदा ॥
सुमित्र उवाच ।
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः ।
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः ॥
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा ।
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये ॥
गोमातर ऊचुः ।
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम् ।
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम ॥
सुमित्र उवाच ।
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे ।
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः ॥
भीष्म उवाच ।
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् ।
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन् ॥
कलेवरं तु तत्रैव तस्य सन्न्यस्य मातरः ।
निष्कृष्य करणं योगादानयन्भार्गवस्य वै ॥
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् ।
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः ॥
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम् ।
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन् ॥
ततः सञ्छिद्य बहुधा भार्गवं नृपसत्तम ।
युयुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन् ॥
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः ।
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः ॥
एवं कृतज्ञा गावो हि यता गोमातरो नृप । ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0