भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.98

12.98.1

के लोका युध्यमानानां शूराणामनिवर्तिनाम् ।
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.98.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अम्बरीपस्य संवादमिन्द्रस्य च युधिष्ठिर ॥

12.98.3

अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् ।
ददर्श सुर--कस्थं शक्रेण सचिवैः सह ॥

12.98.4

सर्वतेजोमयं दिव्यं विमानवरमास्थितम् ।
उ---गच्छन्तं स्थानं सेनापतिं शुभम् ॥

12.98.5

स दष्ट्वापरि गच्छन्तं सेनापतिमुदारधीः । शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः ।
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥
अम्बरीप उवाच ।

12.98.6

सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि ।
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥

12.98.7

ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया ।
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥

12.98.8

अतिथीनन्नपानेन पितॄंश्च स्वधया तथा ।
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥

12.98.9

क्षत्रध--स्थितो भूत्वा यथाशास्त्रं यथाविधि ।
उदीक्षमाणः पृतनां जयामि युधि वासव ॥

12.98.10

दे--ज सुदेवोऽयं मम सेनापतिः पुरा । आसाद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ।
विमानं सूर्यसङ्काशमास्थितो मोदते दिवि ॥

12.98.11

अनेन ऋतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः ।
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम् ॥

12.98.12

ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् ।
इन्द्र उवाच ।
यदनेन कृतं कर्म प्रत्यक्षं ते महीपते ।
पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप ॥

12.98.13

शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः ।
संयमो वियमश्चैव सुयमश्च नहाबलः ॥

12.98.14

राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः ।
पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः ॥

12.98.15

तथा तस्मिञ्शुभे काले तव यज्ञं वितन्वतः ।
अश्वमेधं महायागं देवानां हितकाम्यया ॥

12.98.16

तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः । कोटीशतपरीवारां राक्षसानां महाचमूम् ।
परिगृह्य ततः सर्वाः प्रजा वन्दीकृतास्तव ॥

12.98.17

विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः ।
निराकृतस्तु यच्चासीत्सुदेवः सैन्यनायकः ॥

12.98.18

तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु ।
श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिपः ॥

12.98.19

सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया ।
साक्षसानां वधार्थाय दुर्जयानां नराधिप ॥

12.98.20

नाजित्वा राक्षसीं सेनां पुनरागमनं तव ।
बन्दीमोक्षमकृत्वा च न चागमनमिष्यते ॥

12.98.21

सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप ।
सम्प्राप्तश्च स तं देशं यत्र बन्दीकृताः प्रजाः ॥

12.98.22

पश्यति स्म महाघोरां राक्षसानां महाचमूम् ।
दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः ॥

12.98.23

नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः । नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः ।
दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः ॥

12.98.24

ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव ।
यत्र त्वं सचिवैः सर्वैर्मन्त्रिभिः सोपधैर्नृप ॥

12.98.25

ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् ।
श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् ॥

12.98.26

स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः ॥

12.98.27

कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः ।
स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह ॥

12.98.28

किमिदं साहसं पुत्र कुर्तकामो वदस्व मे ।
स उवाच महादेवं शिरसा त्ववनीं गतः ॥

12.98.29

भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर । अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम् ।
गतिर्भव महादेव ममार्तस्य जगत्पते ॥

12.98.30

नागन्तव्यमजित्वा च मामाह जगतीपतिः ।
अम्बरीषो महादेव क्षारितः सचिवैः सह ॥

12.98.31

तमुवाच महादेवः सुदेवं पतितं क्षितौ ।
अधोमुखं महात्मानं सत्वानां हितकाम्यया ॥

12.98.32

धनुर्वेदं समाहूय सगणं सहविग्रहम् ।
रथनागाश्वकलिलं दिव्यास्त्रसमलन्कृतम् ॥

12.98.33

रथं च सुमहाभागं येन तन्त्रिपुरं हतम् । धनुः पिनाकं खङ्गं च रौद्रमस्त्रं च शन्करः ।
निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः ॥

12.98.34

उवाच च महादेवः सुदेवं वाहिनीपतिम् ।
रथादस्मात्सुदेव त्वं दुर्जयः स सुरासुरैः ॥

12.98.35

मायया मोहितो भूमौ न पदं कर्तुमर्हसि ।
रथस्थस्त्रिदशान्सर्वाञ्जेष्यसि त्वं सदानवान् ॥

12.98.36

राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम् ।
रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह ॥

12.98.37

स जित्वा राक्षसान्सर्वान्कृत्वा बन्दीविमोक्षणम् । घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः ।
वियमं प्राप्य भूपाल वियमश्च निपातितः ॥

12.98.38

तस्य विक्रमतस्तात सुदेवस्य बभूव ह ।
सन्ग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥

12.98.39

सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् ।
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥
अम्बरीष उवाच ।

12.98.40

कानि यज्ञे हवींष्यस्मिन्किमाज्यं का च दक्षिणा ।
ऋत्विजश्चात्र क्रे प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥
इन्द्र उवाच ।

12.98.41

ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा ।
हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते ॥

12.98.42

शृगालगृध्रकाकोलाः सदस्यास्तत्र पन्त्रिणः ।
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥

12.98.43

प्रासतोमरसन्घाताः खङ्गशक्तिपरश्वथाः ।
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥

12.98.44

चापवेगायतस्तीक्ष्णः परकायावभेदनः ।
ऋजुः सुनिशितः पीतः सायकश्च स्रुवो म-- ॥

12.98.45

द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः ।
हस्तिहस्तहरः खङ्गः स्फयो भवेत्तस्य संयुगे ॥

12.98.46

ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः ।
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥

12.98.47

[सङ्ख्यासमयविस्तीर्णमभिजातोद्भवं बहु.] आवेधाद्यच्च रुधिरं सन्ग्रामे स्रवते भुवि ।
साऽस्य पूर्णाहुतिर्होत्रैः समृद्धा सर्वकामधुक् ॥

12.98.48

छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे ।
सामानि सामगास्तस्य गायन्ति यमसादने ॥

12.98.49

हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ॥

12.98.50

कुञ्जराणां हयानां च वर्मिणां च समुच्चय ।
अग्निः श्येनचितो नाम यज्ञे तस्य विधीयते ॥

12.98.51

उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः ।
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥

12.98.52

इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः ।
ज्याघुष्टतलतालेन वषट््कारेण पार्थिव ॥

12.98.53

उद्गाता तत्र सन्ग्रामे त्रिसामा दुन्दुभिर्नृप । ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम् ।
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥

12.98.54

भर्तुरर्थे च यः शूरो निष्क्रामेद्वाहिनीमुखात् ।
न भयाद्विनिवर्तेत तस्य लोका यथा मम ॥

12.98.55

द्वीपिचर्मावृतैः खङ्गैर्बाहुभिः परिघोपमैः ।
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥

12.98.56

यस्तु नापेक्षते कञ्चित्सहायं विषमे स्थितः ।
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥

12.98.57

यस्य शोणितसन्घट्टा भेरीमण्डूककच्छपा ।
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥

12.98.58

असिचर्मप्लवा घोरा केशशैवलशाद्वला ।
अश्वनागरथैश्चैव सञ्छिन्नैः कृतसन्क्रमा ॥

12.98.59

पताकाध्वजवानीरा हतवाहनवारणा ।
शोणितोदकसम्पूर्णा दुस्तरा पारगैर्नरैः ॥

12.98.60

रहतनागमहानक्रा परलोकवहाऽशिवा ।
ऋष्टिखङ्गमहामीना गृध्रकङ्कबलप्लवा ॥

12.98.61

पुरुषादानुचरिता भीरूणां कश्मलावहा ।
नदी योधस्य सन्ग्रामे तदस्यावभृथं नृप ॥

12.98.62

वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते ।
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥

12.98.63

पत्नी शालाकृता यस्य परेषां वाहिनीमुखम् ।
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः ॥

12.98.64

सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम् ।
शत्रुसेना अलत्रस्य सर्वलोकानदूरतः ॥

12.98.65

यस्य भयतो व्यूहे भवत्याकाशमग्रतः ।
सास्य वेदिस्तदा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः ॥

12.98.66

यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः ।
अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः ॥

12.98.67

यस्य शोणितवेगेण वेदिः स्यात्सम्परिप्लुता ।
केशमांसास्थिसम्पूर्णा स गच्छेत्परमां गतिम् ॥

12.98.68

यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।
स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः ॥

12.98.69

नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः ।
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम ॥

12.98.70

आहवे तु हतं शूरं न शोचेत कथञ्चन ।
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥

12.98.71

न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् ।
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥

12.98.72

वराप्सरः सहस्राणि शूरमत्योधने हतम् ।
त्वरमाणानि धावन्ति मम भर्ता भवेदिति ॥

12.98.73

एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ।
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥

12.98.74

वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः ।
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥

12.98.75

अहं वृत्रं बलं पाकं महाकायं विरोचनम् ।
दुरावारं च नमुचिं शतमायं च शम्बरम् ॥

12.98.76

विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः ।
प्रह्वादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥

12.98.77

इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च ।
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc