भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.97

12.97.1

क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप ।
अपयाने च युद्धे च राजा हन्ति महाजनम् ॥

12.97.2

अथ स्म कर्मणा केन लोकाञ्जयति पार्थिवः ।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥
भीष्म उवाच ।

12.97.3

निग्रहेण च पापानां साधूनां सन्ग्रहेण च ।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥

12.97.4

उपरुन्धन्ति राजानो भूतानि विजयार्थिनः ।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥

12.97.5

अपविध्यन्ति पापानि दानयज्ञतपोबलैः ।
अनुग्रहेण भूतानां पुण्यमेषां विवर्धते ॥

12.97.6

यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च ।
हिनस्ति धान्यकक्षं च न च धान्यं विनश्यति ॥

12.97.7

एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा ।
तस्यैषा निष्कृतिर्दृष्टा भूतानां भावनं पुनः ॥

12.97.8

यो भूतानि सदाऽनर्थाद्वधात्क्लेशाच्च रक्षति ।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥

12.97.9

स सर्वयज्ञारीजानो राजाऽथाभयदक्षिणैः ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥

12.97.10

ब्राह्मणार्थे समुत्पन्ने योऽभिनिष्पत्य युध्यति ।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ॥

12.97.11

अभीतो विकिरञ्शत्रून्प्रतिगृह्य शरांस्तथा ।
न तस्मान्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन ॥

12.97.12

तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे ।
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥

12.97.13

यदस्य रुधिरं गात्रादाहवे सम्प्रवर्तते ।
सह तेनैव स्रावेण सर्वपापैः प्रमुच्यते ॥

12.97.14

यानि दुःखानि सहते प्राणानामतिपातने ।
न तपोऽस्ति ततो भूय इति धर्मविदो विदुः ॥

12.97.15

पृष्ठतो भीरवः सङ्ख्ये वर्तन्ते धर्मपूरुषाः ।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥

12.97.16

यदि शूरं तथा क्षेमे प्रतीक्षेरन्यथा भये ।
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥

12.97.17

यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् ।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥

12.97.18

पुरुषाणां समानानां दृश्यते महदन्तरम् ।
सन्ग्रामेऽनीकवेलायामुत्कृष्टेषु पतत्सु च ॥

12.97.19

पतत्यभिमुखं शूरः परान्भीरुः पलायते ।
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥

12.97.20

मा स्म तांस्तादृशांस्तात जनिष्टाऽधर्मपूरुषान् ॥

12.97.21

ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ।
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ॥

12.97.22

त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति । तं हन्युः काष्ठलोहैर्वा दहेयुर्वा कटाग्निना ।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥

12.97.23

अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥

12.97.24

अविक्षतेन देहेन प्रलयं योऽधिगच्छति ।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥

12.97.25

न गृहे मरणं तात क्षत्रियाणां प्रशस्यते ।
शौण्डीराणामशौण्डीर्यमधर्मं कृपणं च तत् ॥

12.97.26

इदं कृच्छ्रमहो दुःखं पापीय इति निष्टनन् ।
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन् ॥

12.97.27

अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति ।
वीरो दृप्तो मनस्वी च नेदृशं मृत्युमर्हति ॥

12.97.28

रणेषु कदनं कृत्वा सुहृद्भिः प्रतिपूजित ।
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मुत्युमर्हति ॥

12.97.29

शूरो हि सत्वमन्युभ्यामाविष्टो युध्यते मशम् ।
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥

12.97.30

स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् ।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥

12.97.31

सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः ।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥

12.97.32

यत्रयत्र हतः शूरः शत्रुभिः परिवारितः ।
अक्षयांल्लभते लोकान्यदि दैन्यं न सेवते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc