भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.99

12.99.1

अत्राप्युदाहरन्तीम-तिहासं पुरातनम् ।
प्रतर्दनो मैथिलश्च सन्ग्रामं यत्र चक्रतुः ॥

12.99.2

यज्ञोपवीती सन्ग्रामे जनको मिथिलाधिपः ।
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ॥

12.99.3

जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् ।
योधानां दर्शयामास स्वर्गं नरकमेव च ॥

12.99.4

अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत ।
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ॥

12.99.5

इमे पलायमानानां नरकाः प्रत्युपस्थिताः ।
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम् ॥

12.99.6

तान्दृष्ट्वाऽरीन्विजयत भूत्वा सन्त्यागबुद्धयः ।
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ॥

12.99.7

त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् ।
इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय ॥

12.99.8

अजयन्त रणे शत्रून्हर्षयन्तो नरेश्वरम् ।
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि ॥

12.99.9

गजानां रथिनो मध्ये रथानामनुसादिनः ।
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम् ॥

12.99.10

य एवं व्यूहते राजा स नित्यं जयते रिपून् ।
तस्मदितद्विधातव्यं नित्यमेव युधिष्ठिर ॥

12.99.11

स्वर्गे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः ।
क्षोभयेयुरनीकानि सागरं मकरा यथा ॥

12.99.12

हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् ।
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत् ॥

12.99.13

पुनरावर्तमानानां निराशानां च जीविते ।
वेगः सुदुःसहो राजंस्तस्मान्नात्यनुसारयेत् ॥

12.99.14

न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात् ।
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ॥

12.99.15

चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि ।
अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥

12.99.16

समानपृष्ठोदरपाणिपादाः पश्चाच्छरं भीरवोऽनुव्रजन्ति ।
अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥

12.99.17

शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सद ।
तस्मात्सर्वेषु लोकेषु शूरः सम्मानमर्हति ॥

12.99.18

न हि शौर्यात्परं किञ्चिन्त्रिषु लोकेषु विद्यते ।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc