भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.96

12.96.1

नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः ।
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः ॥

12.96.2

अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च ।
पातयत्येव राजानं महीं च भरतर्षभ ॥

12.96.3

विशीर्णकवचं चैव तवास्मीति च वादिनम् ।
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥

12.96.4

बलेन विजितो यश्च न तं युध्येत भूमिपः ।
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥

12.96.5

नार्वाक्संवत्सरात्कन्या प्रष्टव्या विक्रमाहृता ।
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम् ॥

12.96.6

न तु वध्ये धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः ।
युञ्जीरन्नप्यनडुहः क्षन्तव्यं वा पुनर्भवेत् ॥

12.96.7

राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते ।
नान्यो राजानमभ्यस्येदराजन्यः कथञ्चन ॥

12.96.8

अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा ।
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ॥

12.96.9

मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् । अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः ।
असङ्ख्येपतदूर्ध्वं स्यादनादेयश्च संसदि ॥

12.96.10

यस्तु धर्मविलोपेन मर्यादाभेदनेन च ।
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ॥

12.96.11

धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत् ॥

12.96.12

सहसा न्याय्यभूतानि क्षिप्रमेव प्रसादयेत् ।
सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥

12.96.13

भुज्यमाना ह्यभोगेन स्वराष्ट्रादभितापिताः ।
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥

12.96.14

अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि ।
सन्तुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥

12.96.15

नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन ।
जीवितं ह्यप्यतिच्छिन्नः सन्त्यजेदेकदा नरः ॥

12.96.16

अल्पेनापि च संयुक्तस्तुष्यते नापराधितः ।
शुद्धं जीवितमेवापि तादृशो बहुमन्यते ॥

12.96.17

यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः ।
सन्तुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥

12.96.18

ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः ।
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते ॥

12.96.19

एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः ।
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः ॥

12.96.20

भूमिवर्जं धनं राजा जित्वा राजन्महाहवे ।
अपि चान्नोषधीः शश्वदाजहार प्रतर्दनः ॥

12.96.21

अग्रिहोत्राग्निशेषं च हविर्भोजनमेव च ।
आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥

12.96.22

सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ ।
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत ॥

12.96.23

उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर ।
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥

12.96.24

सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः ।
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc