भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.95

12.95.1

अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि ।
कस्तस्य विजये धर्मो ह्येतं पृष्टो ब्रवीहि मे ॥
भीष्म उवाच ।

12.95.2

ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः ।
ब्रूयादहं यो राजेति रक्षिष्यामि च वः सदा ॥

12.95.3

मम धर्मबलिं दत्त किंवा मां प्रतिपत्स्यथ ।
ते चोक्तमागतं तत्र घृणीयुः कुशलं भवेत् ॥

12.95.4

ते चेदक्षत्रियाः सन्तो विरुध्येरन्कथञ्चन ।
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥

12.95.5

अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः ।
त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥
युधिष्ठिर उवाच ।

12.95.6

अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् ।
कथं सम्प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.95.7

नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे ।
एक एकेन भाव्यश्च विसृजेति क्षिपामि च ॥

12.95.8

स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत् ।
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥

12.95.9

स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत् ।
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥

12.95.10

नाश्वेन रथिनं यायादुदियाद्रथिनं रथी ।
व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥

12.95.11

नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् ।
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः ॥

12.95.12

नास्त्येकस्य गजो युद्धे गजश्चेकस्य विद्यते ।
न पदातिर्गजं युध्येन्न गतेन पदातिनम् ॥

12.95.13

हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः । दिव्यास्त्रबलसम्पन्नः कामं युध्येत सर्वदा ।
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः ॥

12.95.14

रामरावणयोर्युद्धे हरयो वै पदातयः ।
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः ॥

12.95.15

रावणस्यान्तकाले च रथेनैन्द्रेण राधवः ।
निजघान दुराचारं रावणं पापकारिणम् ॥

12.95.16

दिव्यास्त्रबलसम्पन्ने सर्वमेतद्विधीयते । देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः ॥

12.95.17

[साधूनां तु यदा भेदात्साधुश्चेद्व्यसनी भवेत्.] निष्प्राणो नाभिहन्तव्यो नानपत्यः कथञ्चन ।
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः ।

12.95.18

चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहे भवेत् ।
निर्व्रणश्च स भोक्तव्य एष धर्मः सनातनः ॥

12.95.19

तस्माद्धर्मेण योद्धव्यमिति स्वायम्भुवोऽब्रवात् ।
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत् ॥

12.95.20

यो वै जयत्यधर्मेण क्षत्रियो धर्मसन्गरः ।
आत्मानमात्मना हन्ति पापो निकृतिजीवनः ॥

12.95.21

कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत् ।
धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥

12.95.22

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
मूलानि च प्रशाखाश्च दहन्समधिगच्छते ॥

12.95.23

पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति ।
स वर्धमानस्तेनैव पापः पापे प्रसज्जति ॥

12.95.24

न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव । अश्रद्दधानश्च भवेद्विनाशमुपगच्छति
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते ।

12.95.25

महादृतिरिवाध्मातः स्वकृतेनैव वर्धते ।
ततः समूलो ह्रियते नदीकूलादिव द्रुमा ॥

12.95.26

अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्यानि ।
तस्माद्धर्मेण विजयं कोशं लिप्सेत भूमिपः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc