महाभारत · अध्याय 12.82
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत ।
यः कश्चिद्वेदयेदर्थं राज्ञा रक्ष्यः स मानवः ॥
ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः ।
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥
श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत् ।
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत ॥
राजकोशस्य गोप्तारं राजकोशविलोपकाः ।
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥
कोसलानामाधिपत्यं सम्प्राप्तं क्षेमदर्शिनम् ।
मुनिः कालकवृक्षीय आजगोमेति नः श्रुतम् ॥
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः ।
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥
अधीये वायसीं विद्यां शंसन्ति मम वायसाः ।
अनागतमतीतं च यच्च सम्प्रति वर्तते ॥
इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह ।
सर्वेषां राजयुक्तानां दुष्कृतं परिदृष्टवान् ॥
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः ।
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥
ततः स काकमादाय राजानं द्रष्टुमागमत् ।
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥
स स्म कौसल्यमागम्य राजामात्यमलन्कृतम् ।
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥
असौ चासौ च जानीते राजकेशस्त्वया हृतः ।
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥
तथाऽन्यानपि स प्राह राजकोशहरांस्तदा ।
न चास्य वचनं किञ्चिदनृतं श्रूयते क्वचित् ॥
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह ।
तमतिक्रम्य सुप्तं तु निशि काकमपोथयन् ॥
वायसं तु विनिर्भिन्नं दृष्ट्वा वाणेन पञ्जरे ।
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् ।
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम् ॥
मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मनाऽगतः ।
ह्रियन्ते हि महार्थाश्च पुरुषे विक्रमत्यपि ॥
सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः ।
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात् ॥
तथाविधस्य सुहृदा क्षन्तव्यं संविजानता ।
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥
तं राजा प्रत्युवाचेदं यत्किञ्चिन्मां भवान्वदेत् ।
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥
ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि ।
करिष्यामि हि ते वाक्यं यन्मां विप्र प्रवक्ष्यसि ॥
मुनिरुवाच ।
विद्वान्नयानपायांश्च भयाख्यातॄन्भयानि च ।
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागतः ॥
प्रागेवोक्तं तु दोषोऽयमाचार्यैर्नृपसेवनम् ।
अगतेः कुगतिर्ह्येषा या राज्ञा सहजीविका ॥
आशीविषैश्च तस्याहुः सन्गमं यस्य राजभिः ।
बहुमित्रांश्च राजानो बह्वभित्रास्तथैव च ॥
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम् ।
तथाऽस्य राजतो राजन्मुहुर्तादागतं भयम् ॥
नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ ।
न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ॥
प्रमादात्स्खलते बुद्धिः स्खलतो नास्ति जीवितम् ।
अग्निं दीप्तमिवासीदेद्राजानप्नुपशिक्षितः ॥
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥
दुर्व्याहृताच्छङ्कमानो दुःस्थिताद्दुरनुष्ठितात् ।
दुरासदाद्दुर्वृजिनादिङ्गिताद्ध्यायितादपि ॥
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः ।
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ॥
इति राजन्यमः प्राह वर्तते च तथैव तत् ।
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः ॥
ददात्यत्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ।
वायसस्त्वेष मे राजन्नन्तकायाभिसंहितः ॥
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ।
हिताहितांस्तु बुद्ध्येथा मापरोक्षमतिर्भव ॥
ये त्वादानपरा एव वसन्ति भवतो गृहे ।
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥
यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम् ।
आन्तरैराभेसन्धाय राजन्सिद्ध्यति नान्यथा ॥
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् ।
तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो ॥
छझना मम काकश्च गमितो यमसादनम् ।
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेन चक्षुषा ॥
बहुनक्रझषग्राहां तिमिन्गिलगणैर्युताम् ।
काकेन वालिशेनेमामतार्षमहमापगाम् ॥
स्थाण्वश्मकण्टकवर्तीं सिंह व्याघ्रसमाकुलाम् । दुरासदां दुष्प्रसहां गुहां हैमवतीमिव ।
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते ।
राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥
गहनं भवतो राज्यमन्धकारं तमोन्वितम् ।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया ॥
अतो नायं शुभो वासस्तुल्ये सदसती इह ।
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥
न्यायतो दुष्कृते घातः सुकृते न कथनम् ।
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्वुधः ॥
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति ।
तयोपमामिमां मन्ये वागुरां सर्वधातिनीम् ॥
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् ।
असतामिव ते भावो वर्तते न सतामिव ॥
आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव ॥
दुर्गतीर्था बृहत्कूला कावेरी चोरसंयुता । नदी मधुरपानीया यथा राजंस्तथा भवान् ।
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥
यथाऽश्रित्य महावृक्षं कक्षः संवर्धते महान् ।
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥
तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः ।
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥
त्वया चैव कृता राजन्भवता परिपालिताः ।
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥
उषितं शङ्कमानेन प्रमादं परिरक्षता । अन्तः सर्प इवागारे वीरपत्न्या इवालये ।
शीलं जिज्ञासमानेन राज्ञः साहसजीविनः ॥
कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः ।
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥
विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम ।
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम् ॥
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् । भवतोऽर्थकृदित्येवं मयि ते दोषमादधन् ।
विद्यते कारणं नान्यदिति मे नात्र संशयः ॥
न हि तेषामहं द्रोग्धा तत्तेषां द्रोहवद्गतम् ।
अरेर्हि दुर्हृदाद्भेयं भग्नपृष्ठादिवोरगात् ॥
राजोवाच ।
भूयसा परिहारेण सत्कारेण च भूयसा ।
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥
ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे ।
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम् ॥
यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम् ।
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥
मुनिरुवाच ।
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु । ततः कारणमाज्ञाय पुरुषम्पुरुषं जहि ।
एकदोषा हि बहवो मृद्गीयुरपि कण्टकान् ॥
अर्थे सर्वं जगद्वद्धमर्थेनैव निबध्यते ।
अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय ॥
एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय ।
स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति ॥
सामपूर्वं च केषाञ्चिद्भेदेन च परस्परम् ।
वैरं कारय भूपाल पश्चाद्दण्डं प्रचोदय ॥
बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान् । अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय ॥
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः ।
स्वस्ति चेच्छाम भवतः परेषां च यथाऽत्मनः ॥
राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम् । मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः ।
पितुः सखा च भवतः सम्मतः सत्यसन्गरः ॥
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ।
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया ॥
स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रो दिति ॥
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया ।
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥
भीष्म उवाच ।
ततो राजकुले नान्दी सञ्जज्ञे भूयसा पुनः ।
पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे ॥
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने ।
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥
हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम् ।
तथा च कृतवान्राजा यथोक्तं तेन भारत ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0