भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.83

12.83.1

सभासदः सहायाश्च सुहृदश्च विशाम्पते ।
परिच्छदास्तथाऽमात्याः कीदृशाः स्युः पितामह ॥
भीष्म उवाच ।

12.83.2

ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः ।
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥

12.83.3

अमात्याश्चातिशूराश्च ब्रह्मण्याश्च बहुश्रुताः ।
सुसन्तृष्टाश्च कौन्तेय महोत्साहाश्च कर्मसु ॥

12.83.4

एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत ॥

12.83.5

कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति । प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा ।
आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम् ॥

12.83.6

कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः ।
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥

12.83.7

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः ।
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥

12.83.8

कुलीनाञ्शीलसम्पन्नानिङ्गितज्ञाननिष्ठुरान् । देशकालविधानज्ञान्भर्तृकार्यहितैपिणः ।
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥

12.83.9

अर्थमानार्घसत्कारैर्भोगैरुच्चावचैः प्रियैः ।
यानर्थभाजो मन्येथास्तेते स्युः सुखभागिनः ॥

12.83.10

अभिन्नवृत्ता विद्वांसः सद्वॄत्ताश्चरितव्रताः ।
नत्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥

12.83.11

अनार्या ये न जानन्ति समयं मन्दचेतसः ।
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः ॥

12.83.12

नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः ।
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥

12.83.13

श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते ।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥

12.83.14

समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः ।
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥

12.83.15

अमानी अत्यवाक्शक्तो जितात्मा मानसंयुतः ।
स ते मन्त्रसहायः स्यात्सर्वावस्थापरीक्षितः ॥

12.83.16

कुलीनः कुलसम्पन्नस्तितिक्षुर्दश आत्मवान् ।
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥

12.83.17

तस्यैवं वर्तमानस्य पुरुषस्य विजानतः ।
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ॥

12.83.18

अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम् ।
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥

12.83.19

सम्बन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः ।
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः ॥

12.83.20

यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहन्कृताः ।
कर्तव्या भूतिकामेन पुरुषेण बुभूपता ॥

12.83.21

एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना ।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः ॥

12.83.22

परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरन्धरान् ।
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः ॥

12.83.23

पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् ।
कुलीनान्सत्वसम्पन्नानिङ्गितज्ञाननिष्ठुरान् ॥

12.83.24

देशकालविधानज्ञान्भर्तृकार्यहितैषिणः ।
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः ॥

12.83.25

हीनतेजोभिसंसृष्टो नैव जातु व्यवस्यति ।
अवश्यं जनयत्येव सर्वकर्मसु संशयम् ॥

12.83.26

एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम् ॥

12.83.27

तथैवानभिजातोऽपि काममस्तु बहुश्रुतः ।
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥

12.83.28

यो वाऽप्यस्थिरसन्कल्पो बुद्धिमानागतागमः । 12-83-28बुपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम् ॥

12.83.29

केवलात्पुनरादानात्कर्मणो नोपपद्यते ।
परामर्शो विशेषणामश्रुतस्येह दुर्मतेः ॥

12.83.30

मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते ।
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥

12.83.31

व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः ।
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥

12.83.32

सन्क्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति ।
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति ॥

12.83.33

तानितान्यनुरक्तेन शक्यानि हि तितिक्षितुम् ।
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥

12.83.34

यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया ।
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥

12.83.35

अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः ।
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥

12.83.36

योऽमित्रैः सह सम्बद्धो न परान्बहुमन्यते ।
असुहृत्तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति ॥

12.83.37

अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः ।
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥

12.83.38

आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः ।
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥

12.83.39

विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा ।
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति ॥

12.83.40

यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत् ।
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥

12.83.41

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः ।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥

12.83.42

ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः ।
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥

12.83.43

सत्यवाक्शीलसम्पन्नो गन्भीरः सत्रपो मृदुः ।
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥

12.83.44

सन्तुष्टः सम्मतः सद्भिः शौटीरो द्वेष्यपापकः ।
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥

12.83.45

सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशम् ।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ॥

12.83.46

पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः ।
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥

12.83.47

तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः ।
मन्त्रिणः प्रकृतिज्ञाः स्युख्यवरा महदीप्सवः ॥

12.83.48

स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च ।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥

12.83.49

नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ।
गूहेत्कूर्म इवाङगानि रक्षेद्विवरमात्मनः ॥

12.83.50

मन्त्रग्राहा हि राजस्य मन्त्रिणो ये मनीषिणः ।
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जन्गः ॥

12.83.51

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते ।
स्वामिनं त्वनुवर्न्तते वृत्त्यर्थमिह मन्त्रिणः ॥

12.83.52

संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः ।
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥

12.83.53

तेषां त्रयाणां त्रिविधं विमर्शं विबुध्य चित्तं विनिवेश्य तत्र ।
स्वनिश्चयं तं परनिश्चयं च निदर्शयेदुत्तरमन्त्रकाले ॥

12.83.54

धर्मार्थकामज्ञमुपेत्य पृच्छे द्युक्तो गुरुं ब्राह्मणमुत्तरार्थम् ।
निष्ठा कृता तेन यदा सहः स्या त्तं मन्त्रमार्गं प्रणयेदसक्तः ॥

12.83.55

एवं सदा मन्त्रयितत्र्यमाहु र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः ।
तस्मात्तमेवं प्रणयेत्सदैव मन्त्रं प्रजासन्ग्रहणे समर्थम् ॥

12.83.56

न वामनाः कुब्जकृशा न खञ्जा नान्धा जडाः स्त्री च नपुंसकाश्च ।
न चात्र तिर्यक्च पुरो न पश्चा न्नोर्ध्वं न चाधः प्रपरेत्कथञ्चित् ॥

12.83.57

आरुह्य वा वेश्म तथैव शून्यं स्थलं प्रकाशं कुशकाशहीनम् ।
वागङ्गदोषान्परिहृत्य सर्वा न्सम्मन्त्रयेत्कार्यमहीनकालम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc