भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.81

12.81.1

एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले ।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥
भीष्म उवाच ।

12.81.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य महर्षेर्नारदस्य च ॥
वासुदेव उवाच ।

12.81.3

नासुहृत्परर्म मन्त्रं नारदार्हति वेदितुम् ।
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान् ॥

12.81.4

स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद ।
कृत्स्नां बुद्धिं च ते प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ॥

12.81.5

दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् ।
अर्धम्भोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥

12.81.6

अरणीमग्निकामो वा मथ्नाति दहृयं मम ।
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा ॥

12.81.7

बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे ।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥

12.81.8

अन्ये हि सुमहाभागा बलवन्तो दुरासदाः ।
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः ॥

12.81.9

यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत् ।
द्वयोरेनं प्रचरतोर्वृणोम्येकरतं न च ॥

12.81.10

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः ।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः ॥

12.81.11

सोऽहं कित्नवमातेव द्वयोरपि महामुने ।
नैकस्य जयमाशंसे द्वितीयस्य पराजयम् ॥

12.81.12

ममैवं क्लिश्यमानस्य नारदोभयदर्शनात् ।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥
नारद उवाच ।

12.81.13

आपदो द्विविधाः कृष्ण बाह्याश्चाम्यन्तराश्च ह ।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः ॥

12.81.14

सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा ।
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयः ॥

12.81.15

अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा ।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥

12.81.16

कृतमूलमिदानीं तद्राजशब्दसहायवत् ।
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम् ॥

12.81.17

बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथञ्चन ।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥

12.81.18

तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् ।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत् ॥

12.81.19

अनायसेन शस्त्रेण मृदुना हृदयच्छिदा ।
जिह्वामुद्धर सर्वेषां परिमृदज्यानुमृज्य च ॥
वासुदेव उवाच ।

12.81.20

अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् ।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥
नारद उवाच ।

12.81.21

शक्त्याऽन्नदानं सततं तितिक्षाऽर्जवमार्दवम् ।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ॥

12.81.22

ज्ञातीनां वक्तुकामानां कटुकानि लधूनि च ।
गिरा त्वं हृदयं वाचं शमयस्य मनांसि च ॥

12.81.23

नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।
महतीं धुरमादाय समुद्यम्योरसा वहेत् ॥

12.81.24

सर्व एव गुरुं भारमनङ्वान्वहते समे ।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम् ॥

12.81.25

भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव ।
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ॥

12.81.26

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते ॥

12.81.27

धन्यं यशस्यमायुष्वं स्वपक्षोद्भावनं सदा ।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥

12.81.28

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ।
षाङ्गुण्यस्य विधानेन यात्रा यानविधौ तथा ॥

12.81.29

यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः ।
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये ॥

12.81.30

उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव ।
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम् ॥

12.81.31

त्वामासाद्य यदुश्रेष्ठमेधन्ते वादवाः सुखम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc