भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.341

12.341.1

इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः ।
प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान् ॥

12.341.2

तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः ।
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥

12.341.3

ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते ।
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥

12.341.4

उत्कापाता दिशां दाहो भूमिकम्पस्तथैव च ।
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥

12.341.5

द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः ।
निर्घातशब्दैर्गुरुभिर्भूमिर्व्यादीर्यतेव ह ॥

12.341.6

न बभासे सहस्रांशुर्न जज्वाल च पावकः ।
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥

12.341.7

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च ।
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥

12.341.8

स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसन्निभे ।
संश्लिष्टे स्वतेपीते द्वे रुक्मरूप्यमये शुभे ॥

12.341.9

शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत ।
उदीचीं दिशमास्थाय रुचिरे सन्ददर्श ह ॥

12.341.10

सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥

12.341.11

ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ।
अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥

12.341.12

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः ।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥

12.341.13

ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् ।
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥

12.341.14

दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधा कृतम् ।
साधुसाध्विति तत्रासीन्नादः सर्वत्र भारत ॥

12.341.15

स पूज्यमानो देवैश्च गन्धर्वैरृशिभिस्तथा ।
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा ॥

12.341.16

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः ।
आसीत्किल महाराज शुकाभिपतने तदा ॥

12.341.17

ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् ।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥

12.341.18

तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः ।
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥

12.341.19

तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः ।
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥

12.341.20

शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् ।
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥

12.341.21

महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः ।
निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥

12.341.22

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् ।
शशंसुरृषयस्तत्र कर्म पुत्रस्य तत्तदा ॥

12.341.23

ततः शुकेति दीर्घेण शब्देनाक्रन्दितस्तदा ।
स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोँकाननुनाद्य वै ॥

12.341.24

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः ।
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥

12.341.25

तत एकाक्षरं नादं भोरित्येव समीरयन् ।
प्रत्याहरञ्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥

12.341.26

ततःप्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् ।
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति ॥

12.341.27

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा ।
गुणान्सन्त्यज्य शब्दादीन्पदमभ्यगमत्परम् ॥

12.341.28

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥

12.341.29

ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः ।
आसाद्य तमृषिं सर्वाः सम्भ्रान्ता गतचेतसः ॥

12.341.30

जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे ।
वसनान्याददुः काश्चित्तं दृष्ट्वा मुनिसत्तमम् ॥

12.341.31

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा ।
सक्ततामात्मनश्चैव प्रीतोऽभूद्बीडितश्च ह ॥

12.341.32

तं देवगन्धर्ववृतो महर्षिगणपूजितः ।
पिनाकहस्तो भगवानभ्यागच्छत शन्करः ॥

12.341.33

तमुवाच महादेवः सान्त्वपूर्वमिदं वचः ।
पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा ॥

12.341.34

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह ।
वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः ॥

12.341.35

स तथालक्षणो जातस्तपसा तव सम्भृतः ।
मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः ॥

12.341.36

स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः ।
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥

12.341.37

यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः ।
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥

12.341.38

छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा ।
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥

12.341.39

सोऽनुगीतो भगवता स्वयं रुद्रेण भारत ।
छायां पश्यन्परावृत्तः स मुनिः परया मुदा ॥

12.341.40

इति जन्म गतिश्चैव शुकस्य भरतर्षभ ।
विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि ॥

12.341.41

एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा ।
व्यासश्चैव महायोगी सञ्जल्पेषु पदेपदे ॥

12.341.42

इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् ।
धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc