भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.342

12.342.1

गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥

12.342.2

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम् ।
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥

12.342.3

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥

12.342.4

देवतानां च को देवः पितॄणां च पिता तथा ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.342.5

गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ ।
न ह्येतत्तर्कया शक्यं वक्तुं वर्षशतैरपि ॥

12.342.6

ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा ।
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥

12.342.7

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥

12.342.8

नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः ।
धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत ॥

12.342.9

कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥

12.342.10

तेषां नारायणनरौ तपस्तेपतुरव्ययौ ।
बदर्याश्रममासाद्य शकटे कनकामये ॥

12.342.11

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् ।
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ ॥

12.342.12

तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि ।
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥

12.342.13

नूनं तयोरनुमते हृदि हृच्छपचोदितः ।
महामेरोगिंरेः शृङ्गात्प्रत्युतो गन्धमादनम् ॥

12.342.14

नारदः सुमहद्भूतं सर्वलोकानचीचरत् ।
तं देशमगमद्राजन्वदर्याश्रममाशुगः ॥

12.342.15

तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् ।
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥

12.342.16

सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः ।
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥

12.342.17

धर्मस्य कुलसन्ताने धर्मादेभिर्विवर्धितः ।
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ॥

12.342.18

नरनारायणाभ्यां च कृष्णेन हरिणा तथा ।
अत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ॥

12.342.19

स्थितौ धर्मसुतावेतौ तथा तपसि धिष्ठितौ ।
एतौ हि परमं धाम काऽनयोराह्निकक्रिया ॥

12.342.20

पितरौ सर्वभूतानां दैवतं च यशस्विनौ ।
कां देवतां तु यजतः पितॄन्वा कान्महामती ॥

12.342.21

इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य तु ।
सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥

12.342.22

कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥

12.342.23

तद्दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् ।
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥

12.342.24

नारायणं सन्निरीक्ष्य प्रसन्नेनान्तरात्मना ।
नमस्कृत्य महादेवमिदं वचनमब्रवीत् ॥

12.342.25

वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता माता मृतमनुत्तमम् ॥

12.342.26

प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ।
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ॥

12.342.27

यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् । पिता माता च सर्वस्य देवतानां च शाश्वतम् ।
कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥

12.342.28

कमर्चसि महाभाग तन्मे प्रब्रूहि पृच्छतः ॥
श्रीभगवानुवाच ।

12.342.29

अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ।
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥

12.342.30

यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।
इन्द्रियैन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥

12.342.31

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः ॥

12.342.32

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरव्यया ॥

12.342.33

तां योनिमावयोर्विद्धि योसौ सदसदात्मकः ।
आवाभ्यां पूज्यते यो हि दैवे पित्र्ये च कल्प्यते ॥

12.342.34

नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथवा द्विज ।
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥

12.342.35

तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकमाविनी ।
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥

12.342.36

ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः ।
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥

12.342.37

वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च ।
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥

12.342.38

*एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ।
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम् ॥

12.342.39

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः ।
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥

12.342.40

स्वर्गस्था अपि ये केचित्तान्नमस्यन्ति देहिनः ।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥

12.342.41

ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च ।
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥

12.342.42

मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पिता ।
स हि सर्वगतिश्चैव निर्गुणश्चैव कथ्यते ॥

12.342.43

दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः ।
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥

12.342.44

तं वेदाश्चाश्रमाश्चैव नानातनुसमाश्रितम् ।
भक्त्या सम्पूजयन्त्यद्य गतिं चैषां ददाति सः ॥

12.342.45

ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः ।
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥

12.342.46

इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc