भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.340

12.340.1

गिरिशृङ्गं समारुह्य सुतो व्यासस्य भारत ।
समे देशे विविक्ते स निःशलाक उपाविशत् ॥

12.340.2

धारयामास चात्मानं यथाशास्त्रं यथाविधि ।
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित् ॥

12.340.3

ततः स प्राङ्भुखो विद्वानादित्ये नाचिरोदिते ।
पाणिपादं समाधाय विनीतवदुपाविशत् ॥

12.340.4

न तत्र पक्षिसम्पातो न शब्दो नापि दर्शनम् ।
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ॥

12.340.5

स ददर्श तदाऽत्मानं सर्वसङ्गविनिःसृतम् ।
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य तत्परम् ॥

12.340.6

स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।
महायोगेश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥

12.340.7

ततः प्रदक्षिणं कृत्वा देवर्षि नारदं ततः ।
निवेदयामास च तं स्वं योगं परमर्षये ॥
शुक उवाच ।

12.340.8

दृष्टो मार्गः प्रवृत्तोस्मि स्वस्ति तेऽस्तु तपोधन ।
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥

12.340.9

नारदेनाभ्यनुज्ञातः शुको द्वैपायनात्मजः ।
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥

12.340.10

कैलासपृष्ठादुत्पत्य स पपात दिवं तदा ।
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥

12.340.11

तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ।
ददृशुः सर्वभूतानि मनोऽमारुतरंहसम् ॥

12.340.12

व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् ।
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥

12.340.13

तमेकमनसं यान्तमव्यग्रमकुतोभयम् ।
ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥

12.340.14

यथाशक्ति यथान्यायं पूजयाञ्चक्रिरे तदा ।
पुष्पवर्षेश्च दिव्यैस्तमलञ्चक्रुर्दिवौकसः ॥

12.340.15

तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥

12.340.16

अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः ।
अधः कायोर्ध्ववक्रश्च नेत्रैः समतिवाह्यते ॥

12.340.17

ततः परमधर्मात्मा त्रिषु लोकेषु विश्रुतः । भास्करं समुदीक्षन्स प्राङ्भुखो वाग्यतोऽगमत् ।
शब्देनाकाशमखिलं पूरयन्निव सर्वशः ॥

12.340.18

तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः । सम्भ्रान्तमनसो राजन्नासन्परमविस्मिताः ।
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥

12.340.19

दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् ।
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ॥

12.340.20

ततः समभिचक्राम मलयं नाम पर्वतम् ।
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः ॥

12.340.21

तस्य ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ।
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ॥

12.340.22

अचिरेणैव कालेन नभश्चरति चन्द्रवत् ।
पितृशुश्रूषया बुद्धिं सम्प्राप्तोऽयमनुत्तमाम् ॥

12.340.23

पितृभक्तो दृढतपाः पितुः सुदयितः सुतः ।
अनन्यमनसा तेन कथं पित्रा विसर्जितः ॥

12.340.24

उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् ।
उदैक्षत दिशः सर्वा वचने गतमानसः ॥

12.340.25

सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् ।
विलोकयामास तदा सरांसि सरितस्तथा ॥

12.340.26

ततो द्वैपायनसुतं बहुमानात्समन्ततः ।
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ॥

12.340.27

अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् ।
पिता यद्यनुगच्छेन्मां क्रोशमान शुकेति वै ॥

12.340.28

तस्य प्रतिवचो देयं सर्वैरेव समाहितैः ।
एतन्मे स्नेहनः सर्वे वचनं कर्तुमर्हथ ॥

12.340.29

शुकस्य वचन श्रुत्वा दिशः सजलकाननाः ।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥

12.340.30

यथा ज्ञापयसे विप्र बाढमेवं भविष्यति ।
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc