भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.302

12.302.1

वर्णो विशेषवर्णानां महर्षे केन जायते ।
एतदिच्छाम्यहं ज्ञातुं तद्ब्रूहि वदतां वर ॥

12.302.2

यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥
पराशर उवाच ।

12.302.3

एवमेतन्महाराज येन जातः स एव सः ।
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥

12.302.4

सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः ।
अतोऽन्यतरतो हीनादवरो नाम जायते ॥

12.302.5

वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥

12.302.6

मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः ।
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥

12.302.7

चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।
अतोन्ये त्वतिरिक्ता ये ते वै सन्करजाः स्मृताः ॥

12.302.8

क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥

12.302.9

अयोगाः कारणा व्रात्याश्चाण्डालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात् ॥
जनक उवाच ।

12.302.10

ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् ।
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥

12.302.11

यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।
शूद्रयोनौ समुत्पन्ना वियोनौ च तथा परे ॥
पराशर उवाच ।

12.302.12

राजन्नैतद्भवेद्ब्राह्ममपकृष्टेन जन्मना ।
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥

12.302.13

उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह ।
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥

12.302.14

पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः ।
वेदस्ताण्ड्यः कृपश्चैव काक्षीवत्कमठादयः ॥

12.302.15

यवक्रीतश्च नृपते द्रोणश्च वदतांवरः ।
आयुर्मतङ्गो दत्तश्च द्रुमदो मात्स्य एव च ॥

12.302.16

एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो बलात् ।
प्रतिष्ठिता वेदविदो दमेन तपसैव हि ॥

12.302.17

मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥

12.302.18

कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।
नामधेयानि तपसा तानि च ग्रहणं सताम् ॥
जनक उवाच ।

12.302.19

विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम ।
ततः सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥
पराशर उवाच ।

12.302.20

प्रतिग्रहो याजनं च तथैवाध्यापनं नृप ।
विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना ॥

12.302.21

कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि ।
द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥

12.302.22

विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥

12.302.23

आनृशंस्यमर्हिसा चाप्रमादः संविभागिता ।
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥

12.302.24

स्वेषु दारेषु सन्तोषः शौचं नित्याऽनसूयता ।
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥

12.302.25

ब्राह्मणाः क्षत्रिया वैश्यास्रयो वर्णा द्विजातयः ।
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥

12.302.26

विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।
उन्नमन्ति यथा सन्त आश्रित्येह स्वकर्मसु ॥

12.302.27

न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा ।
श्रुतिप्रयुक्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् ॥

12.302.28

वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः ।
अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् ॥

12.302.29

सतां वृत्तमधिष्ठाय निहीना उद्दिधीर्षवः ।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥

12.302.30

यथायथा हि सद्वॄत्तमालम्बन्तीतरे जनाः ।
यथातथा सुखं प्राप्य प्रेत्य चेह च मोदते ॥
जनक उवाच ।

12.302.31

किं कर्म दूषयत्येनमथो जातिर्महामुने ।
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥
पराशर उवाच ।

12.302.32

असंशयं महाराज उभयं दोषकारकम् ।
कर्म चैव हि जातिश्च विशेषं तु निशामय ॥

12.302.33

जात्या च कर्मणा चैव दुष्टं कर्म न सेवते ।
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥

12.302.34

जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् कर्म तद्दूषयत्येनं तस्मात्कर्म न शोभनम् ॥
जनक उवाच ।

12.302.35

कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम् ।
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥
पराशर उवाच ।

12.302.36

शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥

12.302.37

सन्न्यस्याग्नीनुदासीनाः पश्यन्ति विगतज्वराः ।
नैःश्रेयसं कर्मपथं समारुह्य यथाक्रमम् ॥

12.302.38

प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।
पयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥

12.302.39

सर्वे वर्णा धर्मकार्याणि सम्यक् कृत्वा राजन्सत्यवाक्यानि चोक्त्वा ।
त्यक्त्वा धर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc