भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.301

12.301.1

एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥

12.301.2

प्रायेण च गृहस्थस्य ममत्वं नाम जायते ।
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः ॥

12.301.3

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥

12.301.4

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥

12.301.5

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।
मोहजस्तारतिर्नाम समुपैति नराधिप ॥

12.301.6

कृतार्थ भोगिनं मत्वा सर्वो रतिपरायणः ।
लाभं प्रात्यसुखादन्यं रतितो नानुपश्यति ॥

12.301.7

ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम् ।
दुष्टार्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥

12.301.8

स जानत्रपि चाकार्यमर्थार्थं सेवते नरः ।
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥

12.301.9

ततो दानेन सम्पन्नो रक्षन्नात्मपराजयम् ।
करोति येन भोनी स्यामिति तस्माद्विनश्यति ॥

12.301.10

तद्यदि वुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम् ।
अभिच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥

12.301.11

लोकायतननाशाच्च धननाशाच्च पार्थिव ।
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥

12.301.12

निर्वेदादात्मसम्बोधः सम्बोधादात्मदर्शनम् ।
शास्त्रार्थदर्शनाद्राजसंस्तप एवानुपश्यति ॥

12.301.13

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥

12.301.14

तपः सर्वगतं तात हीनस्यापि विधीयते ।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम् ॥

12.301.15

प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।
क्वचित्क्वचिद्ब्रतपरो व्रतान्यास्थाय पार्थिव ॥

12.301.16

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥

12.301.17

यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥

12.301.18

ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा ।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥

12.301.19

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥

12.301.20

कौशेयानि च वस्त्राणि शुभान्याभरणानि च ।
वाहनासनपानानि तत्सर्वं तपसः फलम् ॥

12.301.21

मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥

12.301.22

शयनानि च मुख्यानि भोज्यानि विविधानि च ।
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम् ॥

12.301.23

नाप्राप्यं तपसः किञ्चिन्त्रैलोक्येऽपि परन्तप ।
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥

12.301.24

सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत् ।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥

12.301.25

असन्तोषोऽसुखथायेति लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥

12.301.26

नष्टप्रज्ञो यदा तु स्यात्तदा न्यायं न पश्यति ।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रतपश्चरेत् ॥

12.301.27

यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहेष्यते ।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥

12.301.28

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।
प्राकाश्यं चैवं गच्छन्ति कृत्वा निष्कल्मषं तपः ॥

12.301.29

अप्रियाण्यवमानाश्च दुःखं बहुविधात्मकम् ।
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम् ॥

12.301.30

धर्मे तपसि दाने च विचिकित्साऽस्य जायते ।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥

12.301.31

सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम् ।
सुवृत्ताद्यो न चलते शास्त्रचक्षुः स मानवः ॥

12.301.32

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता ।
रसने दर्शने घ्राणे श्रवणे च विशाम्पते ॥

12.301.33

ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥

12.301.34

ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः ।
धर्मवृद्ध्या च सततं कामार्थाभ्यां न हीयते ॥

12.301.35

अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥

12.301.36

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम् ॥

12.301.37

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥

12.301.38

सर्वात्मनाऽनुकुर्वीत गृहस्थः कर्मनिश्चयम् ।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन्नृप ॥

12.301.39

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc