भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.303

12.303.1

पिता सखायो गुरवः स्त्रियश्च न निर्गुणानां प्रभवन्ति लोके ।
अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् ॥

12.303.2

पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति ।
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥

12.303.3

रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते ।
प्रयाति लोकानमरैः सुदुर्लभा न्निषेवते स्वर्गफलं यथासुखम् ॥

12.303.4

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्भुखं पारिवर्हैश्च हीनम् ।
अनुद्यन्तं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥

12.303.5

पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम् ।
अतिक्रमेत्तं नृपतिः सन्ग्रामे क्षत्रियात्मजम् ॥

12.303.6

तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः ॥

12.303.7

पापात्पापसमाचारान्निहीनाच्च नराधिप ।
पाप एष वधः प्रोक्तो नरकायेति निश्चयः ॥

12.303.8

न कश्चित्राति वै राजन्दिष्टान्तवशमागतम् ।
सावशेषायुषं चापि कश्चिन्नैवापकर्षति ॥

12.303.9

स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा ॥

12.303.10

गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥

12.303.11

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।
तथा ह्यकारणाद्भवति कारणैरुपपादितम् ॥

12.303.12

तथा शरीरं भवति देहाद्येनोपपादितम् ।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥

12.303.13

द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते ।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥

12.303.14

शिरास्नाय्वस्थिसन्घातं बीभत्सामेध्यसन्कुलम् ।
भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥

12.303.15

त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥

12.303.16

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥

12.303.17

भावितं कर्मयोगेन जायते तत्रतत्र ह । इदं शरीरं वैदेह म्रियते यत्रयत्र ह ।
तत्प्रपाते परो दृष्टो विसर्गः कर्मणस्तथा ॥

12.303.18

न जायते तु नृपते कञ्चित्कालमयं पुनः ।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥

12.303.19

स पुनर्जायते राजन्प्राप्येहायतनं नृपः ।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥

12.303.20

विविधानां च भूतानां जङ्गमाः परमा नृप । जङ्गमानामपि तथा द्विपदाः परमा मताः ।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥

12.303.21

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥

12.303.22

जातमन्वेति मरणं नृणामिति विनिश्चयः ।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥

12.303.23

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥

12.303.24

अयोजयित्वा क्लेशेन जनं प्लाप्य च दुष्कृतम् ।
मृत्युनाऽत्मकृतेनेह कर्म कृत्वाऽत्मशक्तितः ॥

12.303.25

विषमुद्बन्धनं दाहो दस्युहस्तात्तथ वधः ।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥

12.303.26

न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसन्धिजैः ।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥

12.303.27

ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप ।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥

12.303.28

एकः शत्रुर्न द्वितीयोस्ति शत्रु रज्ञानतुल्यः पुरुषस्य राजन् ।
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥

12.303.29

प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्य प्रभवेत यस्य ।
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥

12.303.30

अधीत्य वेदं तपसा ब्रह्मचारी यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च ।
वनं गच्छेत्पुरुषो धर्मकामः श्रेयः कृत्वा स्थापयित्वा स्ववंशम् ॥

12.303.31

उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः ।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥

12.303.32

इयं हि योनिः प्रथमा यां प्राप्य जगतीयते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥

12.303.33

कथं न विप्रणश्येम योनितोस्या इति प्रभो ।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥

12.303.34

यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः ।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥

12.303.35

यस्तु प्रीतिपुराणेन चक्षुषा तात पश्यति ।
दीपोपमानि भूतानि यावदर्थान्न पश्यति ॥

12.303.36

सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।
समदुःखसुखो भूत्वा स परत्र महीयते ॥

12.303.37

दानं त्यागः शोभना मुर्तिमद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् ।
सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥

12.303.38

गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् ।
यानेन वै प्रापणं च श्मशाने शुचौ देशे विधिना चैव दाहः ॥

12.303.39

इष्टिः पुष्टिर्यजनं याजनं च दार्ग पुण्यानां कर्मणां च प्रयोगः ।
शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं सर्वाण्यात्मार्थे मानवोऽयं करोति ॥

12.303.40

गृहस्थानां च सर्वेषां विनाशमभिकाङ्क्षताम् । निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥

12.303.41

धर्मशास्त्राणि वेदाश्च ष़डङ्गानि नराधिप ।
श्रेयसोर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥
भीष्म उवाच ।

12.303.42

एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।
विदेहराजाय पुरा श्रयेसोर्थे नराधिप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc