भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.277

12.277.1

धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.277.2

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥

12.277.3

अधनो ब्राह्मणः कश्चित्कामाद्धनमवैक्षत ।
यज्ञार्थं सततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥

12.277.4

स निश्चयमथो कृत्वा पूजयामास देवताः ।
भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः ॥

12.277.5

ततश्चिन्तामनुप्राप्तः कतमद्दैवतं तु तत् ।
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥

12.277.6

सोऽथ सौम्येन मनसा देवानुचरमन्तिके ।
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥

12.277.7

दृष्ट्वैव तं महाबाहुं तस्य भक्तिरजायत ।
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥

12.277.8

सन्निकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः ।
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥

12.277.9

ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि ।
बलिभिर्विविधाभिश्च पूजयामास तं द्विजः ॥

12.277.10

ततस्त्वल्पेन कालेन तुष्टो जलधरस्तदा ।
तस्योपकारनियतामिमां वाचमुवाच ह ॥

12.277.11

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥

12.277.12

आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः ।
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजां ॥

12.277.13

ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा ।
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥

12.277.14

शमेन तपसा चैव भक्त्या च निरुपस्कृतः ।
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥

12.277.15

माणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् ।
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥

12.277.16

तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च ।
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥

12.277.17

पश्यतामथ यक्षाणं कुण्डधारो महाद्युतिः ।
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥

12.277.18

ततस्तु देववचनान्मणिभद्रो महामनाः ।
उवाच पतितं भूमौ कुण्डधार किमिच्छसि ॥
कुण्डधार उवाच ।

12.277.19

यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।
अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम् ॥

12.277.20

ततस्तं माणिभद्रस्तु पुनर्वचनमब्रवीत् देवानामेव वचनात्कुण्डधारं माहद्युतिम् ॥

12.277.21

उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यः सुखी भव ।
धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम् ॥

12.277.22

यावद्धनं प्रार्थयते ब्राह्मणोऽयं सथा तव ।
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् ॥

12.277.23

विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् ।
तपसो मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥
कुण्डधार उवाच ।

12.277.24

नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥

12.277.25

पृथिवीं रत्नपूर्णां वा महद्वा रत्नसञ्चयम् ।
भक्ताय नाहमिच्छमि भवेदेष तु धार्मिकः ॥

12.277.26

धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु ।
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥
माणिभद्र उवाच ।

12.277.27

सदा धर्मफलं राज्यं सुखानि विविधानि च ।
फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥
भीष्म उवाच ।

12.277.28

ततस्तदेव बहुशः कुण्डधारो महायशाः ।
अभ्यासमकरोद्धर्मे ततस्तुष्टास्तु देवताः ॥
माणिभद्र उवाच ।

12.277.29

प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च ।
भविष्यत्येष धर्मात्मा धर्मे चाधरस्यते मतिः ॥
भीष्म उवाच ।

12.277.30

ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥

12.277.31

ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः ।
पार्श्वतोऽभ्याशतो न्यस्तान्यथ निर्वेदमागतः ॥
ब्राह्मण उवाच ।

12.277.32

अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् ।
गच्छामि वनमेवाहं परं धर्मेण जीवितुम् ॥
भीष्म उवाच ।

12.277.33

निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥

12.277.34

देवतातिथिशेषेण फलमूलाशनो द्विजः ।
धर्मे चास्य महाराज दृढा बुद्धिरजायत ॥

12.277.35

त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः ।
पर्णं त्यक्त्वा जलाहारः पुनरासीद्द्विजस्तदा ॥

12.277.36

वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् ।
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥

12.277.37

धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः ।
कालेन महता तस्य दिव्या दृष्टिरजायत ॥

12.277.38

तस्य बुद्धिः प्रादुरासीद्यदि दद्यामहं धनम् ।
तुष्टः कस्यचिदेवेह मिथ्या वाङ्ग भवेन्मम ॥

12.277.39

ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः ।
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभिमन्यते ॥

12.277.40

यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् ।
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥

12.277.41

तस्य साक्षात्कुण्डधारो दर्शयामास भारत ।
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥

12.277.42

समागम्य स तेनाथ पूजां चक्रे यथाविधि ।
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥

12.277.43

ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् ।
पश्य राज्ञां गतिं विप्र लोकांश्चैव तु चक्षुषा ॥

12.277.44

ततो राजसहस्राणि मग्नानि निरये तदा ।
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥
कुण्डधार उवाच ।

12.277.45

मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥

12.277.46

पश्यपश्य च भूयस्त्वं कामानिच्छेत्कथं नरः ।
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥
भीष्म उवाच ।

12.277.47

ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् । निद्रां तन्द्रीं तथाऽलस्यमावृत्त्य पुरुषान्स्थितान् ॥
कुण्डधार उवाच ।

12.277.48

एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥

12.277.49

न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः ।
एष शक्तोस्मि तपसा दातुं राज्यं धनानि च ॥
भीष्म उवाच ।

12.277.50

ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥

12.277.51

कामलोभानुबन्धेन पुरा ते यदसूयितम् ।
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥

12.277.52

क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् ।
सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥

12.277.53

ततः सर्वांस्तदा लोकान्ब्राह्मणोऽनुचचार ह ।
कुण्डधारप्रसादेन तपसा सिद्धिमागतः ॥

12.277.54

विहायसा च गमनं तथा सन्कल्पितार्थता ।
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥

12.277.55

देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः ।
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥

12.277.56

सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः ।
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc