भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.276

12.276.1

वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥

12.276.2

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ॥

12.276.3

कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ।
आनन्त्यमनुचिन्त्येदं कर्मणां तद्ब्रबीमि ते ॥

12.276.4

निरागममनैतिह्यमत्यक्षं लोकसाक्षिकम् ।
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ॥

12.276.5

उत्पन्नत्यागिनो लुब्धाः कृपासूयाविवर्जिताः ।
धनिनामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥

12.276.6

अनाश्रिताः पापकृत्याः कदाचित्कर्मयोगिनः ।
मनः सन्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥

12.276.7

अक्रुध्यन्तोऽनसूयन्तो निरहन्कारमत्सराः ।
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥

12.276.8

आसन्गृहस्था भूयिष्ठा अपक्रान्ताः स्वकर्मसु ।
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥

12.276.9

समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः ।
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥

12.276.10

पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः ।
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवापि संहताः ॥

12.276.11

संहत्य धर्मं चरतां पुराऽसीत्सुखमेव तत् ।
तेषां नासीद्विधातव्यं प्रायश्चित्तं कथञ्चन ॥

12.276.12

सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः ।
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥

12.276.13

य एव प्रथमः कल्पस्तमेवात्र चरन्महान् ॥

12.276.14

अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ।
यदा तु दुर्बलात्मानः प्रायश्चित्तं तदा भवेत् ॥

12.276.15

एत एवंविधाः प्राहुः पुराणा यज्ञवाहनाः ।
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ॥

12.276.16

यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ।
तेषा यज्ञाश्च वेदाश्च कर्माणि च यथागमम् ॥

12.276.17

आगमाश्च यथाकामं सन्कल्पाश्च यथाव्रतम् ।
अपेतकामक्रोधानां दुश्चराचारकर्मणाम् ॥

12.276.18

स्वकर्मभिः शंसितानां प्रकृत्या शंसितात्मनाम् ।
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम् ॥

12.276.19

सर्वमानन्त्यमेवासीदिति नः शाश्वताश्चुतिः ।
तेषामदीनसत्वानां दुश्चराचारकर्मणाम् ॥

12.276.20

स्वकर्मभिः संसितानां तपो घोरत्वमागतम् ।
सं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥

12.276.21

अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम् ।
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः ॥

12.276.22

सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ।
धर्ममेकं चतुष्पादमाश्रितास्ते नरा विभो ॥

12.276.23

तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ।
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ॥

12.276.24

गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ।
व्यस्तमेकं चतुर्धा तु ब्राह्मणा आश्रमं विदुः ॥

12.276.25

सर्वे सर्वत्र तिष्ठन्तो गच्छन्ति परमां गतिम् । एव एवंविधाः प्राहुः पुराणा ब्रह्मचारिणः ॥

12.276.26

त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः । नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः ।
आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ॥

12.276.27

यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः ।
न लिप्यन्ते पारकृत्यैः कदाचित्कर्मयोनितः ॥

12.276.28

एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः ।
एवंयुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ॥

12.276.29

कर्मैव पुरुषस्याह शुभं वा यदि वाऽशुभम् ।
एवं पक्वकषायाणामानन्त्येन श्रुतेन च ॥

12.276.30

सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ।
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् ॥

12.276.31

चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ।
संसिद्धैः सेव्यते नित्यं ब्राह्मणैर्नियतात्मभिः ॥

12.276.32

सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ।
अपवर्गमतिर्नित्यो यतिधर्मः सनातनः ॥

12.276.33

साधारणः केवलो वा यथाबलमुपास्यते । गच्छन्ते बलिनः क्षेमं दुर्बलोऽत्रावसीदति ।
ब्राह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥
स्यूमरश्मिरुवाच ।

12.276.34

ये भुञ्जते ये ददते यजन्तेऽधीयते च ये ।
मात्राभिर्धर्मलुब्धाभिर्ये वा त्यागं समाश्रिताः ॥

12.276.35

एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः ।
एतदाचक्ष्व मे ब्रह्मन्याथातथ्येन पृच्छतः ॥
कपिल उवाच ।

12.276.36

परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ते ।
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥
स्यूमरश्मिरुवाच ।

12.276.37

भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः ।
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥

12.276.38

एकत्वेन पृथक्त्वेन विशेषो नान्य उच्यते ।
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥
कपिल उवाच ।

12.276.39

शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।
पक्वे कषायविज्ञानं यथा ज्ञानं च तिष्ठति ॥

12.276.40

आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥

12.276.41

पन्थानो ब्रह्मणस्त्वेत एतैः प्राप्नोति यत्परम् ।
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम् ॥

12.276.42

यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः ।
गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् ॥

12.276.43

वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम् ।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः ॥

12.276.44

सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् ।
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥

12.276.45

एषैव निष्ठा सर्वत्र यत्तदस्ति च नास्ति च ।
एतदन्तं च मध्यं च सच्चाऽसच्च विजानतः ॥

12.276.46

समाप्तं त्याग इत्येव शम इत्येव निश्चितम् ।
सन्तोष इत्यनुगतमपवर्गे प्रतिष्ठितम् ॥

12.276.47

ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा स्थावरं जङ्गमं च ।
सर्वं सुखं यच्छिवमुत्तरं च ब्रह्माव्यक्तं प्रभवश्चाव्ययं च ॥

12.276.48

तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम् ।
एतैः शब्दैर्गम्यते बुद्धिनेत्रै स्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc